Санскрит в наши дни 6

Без ключа. Но с подстрочником.

जन्मदिनस्य उपायनम्

(सं) धीरजः

Зн.: 1414

कश्चन ग्रामः। तत्र आसीत् सुधीर–नामकः किशोरः। सः द्वादशवर्षीयः सन् अपि, दृढकायः तरुणः इव भाति स्म। अन्वर्थनामा सः भीतिं नाम्ना अपि न जानाति स्म। आयुधानि एव तस्य क्रीडनकानि भवन्ति स्म।

किशोरः m Парень
दृढकायः С крепким телом Плотно сложенный
अन्वर्थनामा lit Тот, чьё имя – говорящее само за себя fig Соответствуя имени
आयुधम् n Оружие
क्रीडनकम् n Игрушка

कदाचित् तस्य जन्मदिनम् उपस्थितम्। तद्–निमित्तं तदीया माता गृहे पायसं कर्तुम् इच्छन्ती, क्षीरस्य आनयनाय तं गोपालक–गृहं प्रति प्रेषितवती।

तद्–निमित्तम् По причине этого
पायसः Сладкий рисовый пудинг (пайеш)
गोपालक–गृहम् n Скотный двор

सः क्षीरं क्रीत्वा, मन्द–ध्वनिना गायन्, संतोषेण पदानि स्थापयन्, गृहम् आगच्छत् आसीत्।
तावता ग्रामे कोलाहलः समुत्पन्नः। «तुरुष्काः आगताः। तैमूरः उपस्थितः। पलायध्वम्। आत्म–रक्षणं कुरुत» इति वदन्तः जनाः अरण्यं प्रति धावनम् आरब्धवन्तः।

तावता adv Тем временем
कोलाहलः m Переполох
तुरुष्कः n Тюрк (то что официальная русская история именует Татаро-монгол)
तैमूरः n Тимур (Тамерлан)

यं ग्रामं तुरुष्क–नायकः तैमूरः प्रविशेत्, तस्य ग्रामस्य नाशः निश्चितः। गृहाणि लुण्ठयित्वा, अग्निसात् करोति सः। महिलाः दृष्टाः चेत्, तासां शील–नाशः अवश्यम् एव भवेत्। अतः जनाः तैमूरात् नितरां भीताः भवन्ति स्म।

लुण्ठयित्वा ger Разграбив
अग्निसात् √कृ Предавать огню Сжигать
शील–नाशः m Бесчестие

«विषयं ज्ञातवान् मम पुत्रः आत्मरक्षणं कथमपि चिन्तयेत् एव» इति चिन्तयन्ती सुधीरस्य माता गृहात् निर्गत्य, वेगेन अरण्य–मार्गे पदानि स्थापितवती।

विषयः m ? Обстановка

सुधीरः जनानां भीति–पूर्णं व्यवहारं पश्यन्, «मूर्खाः एते!» इति स्वगतं वदन्, निर्जने मार्गे पदानि स्थापयन्, स्वगृहं प्राप्तवान्।

स्वगतम् adv Про себя
निर्जन a Безлюдный

तस्य गृहस्य पुरतः रज्जु–निर्मिते मञ्चे तुरुष्क–नायकः तैमूरः उपविष्टः आसीत्। तं परितः आयुधधारिणः तदीयाः सैनिकाः स्थिताः आसन्। सुधीरः स्वगृहस्य पुरतः स्थितान् तान् सकृत् आश्चर्येण दृष्ट्वा, तान् उपेक्ष्य, गृहस्य अन्तः गन्तुम् उद्यतः।

रज्जु–निर्मिते मञ्चे На троне, изготовленном из верёвок?
आयुधधारी a Вооруженный
सकृत् (зд.) Внезапно
उपेक्ष्य ger Не обращая внимания

– अयि! तिष्ठ, रे बाल। कः त्वम्?» – तैमूरः अपृच्छत्।

अयि inj Эй!
रे inj с оттенком презрения. Значение можно перенести на बाल – Пацан.

– मम गृहस्य पुरतः स्थित्वा, माम् एवं पृच्छन्, त्वं कः? एतत् मम गृहम्। के भवन्तः? किं कार्यम् अत्र भवताम्? – सुधीरः क्रोधेन अपृच्छत्।
तस्य निर्भीकं व्यवहारं दृष्ट्वा, तैमूरः नितराम् आश्चर्य–अन्वितः अभवत्। सः मञ्चात् उत्थाय, तस्य समीपम् आगत्य, अपृच्छत्–

निर्भीक a Бесстрашный
व्यवहारः m Поведение

– बाल! किम् एतत् तव हस्ते?
– क्षीरम्।
– तत् दीयताम् अत्र…
– नैव दास्यते एतत्। मात्रे एव दीयते मया, न अन्यस्मै… – सुधीरः निराकरणं दर्शयन्, अवदत्।

निराकरणम् n Отказ

– अहम् अस्मि सम्राट् तैमूरः। सर्वम् अपि प्राप्तुम् अस्ति मम अधिकारः, – इति वदन्, तैमूरः बालकस्य हस्तात् क्षीर–पात्रं बलात् स्वीकृत्य, क्षीरं पातुम् उद्यतः।

सम्राट् m Правитель Император
क्षीर–पात्रम् n Крынка с молоком (पात्रम् – универсальная лексема для любой кухонной ёмкости)

सुधीरः, किंचित् अग्रे गत्वा, तस्य कटौ लम्बमानं खड्गं झटिति स्वायत्तीकृत्य, अगर्जत्–

कटिः m Пояс как часть тела (точнее: Бедро)
लम्ब् Висеть Свешиваться
खड्गः m Кривая сабля Ятаган
झटिति adv Быстро
गर्ज् Рычать

– एतेन खड्गेन त्वां गत–प्राणं करिष्यामि…

त्वां गत–प्राणं करिष्यामि fig Порешу тебя

तावता तैमूरस्य क्षीर–पानं समाप्तम् आसीत्। सः सुधीरस्य धैर्यं मनसा प्रशंसन्–
– अये बाल! तव यावान् आकारः, ततः अपि दीर्घः अस्ति अयं खड्गः। तव हस्ते न शोभते एषः, – इति वदन्, सुधीरस्य हस्ते स्थितं खड्गम् अल्पेन एव प्रयत्नेन प्रतिस्वीकृतवान्।
– मम कटौ अस्ति तीक्ष्णा छुरिका। तया एव त्वां हनिष्यामि, – इति अवदत् सुधीरः।

छुरिका f Кинжал

– बाल! शोभते तव वीर–वचनम्। सिंहसदृशः असि। साधु! मम निर्दयता लोके ख्याता स्यात्। किंतु शौर्ये मम पक्षपातः अस्मि एव। अतः अहं तव प्राणान् हर्तुं न अर्हामि। तव निर्भीकता मम हृदयम् अहरत्। वीरबाल! वद, त्वं किम् इच्छसि मत्तः?

साधु Хорошо
निर्दयता f Безжалостность
ख्यात f Хорошо известный
शौर्यम् n Отвага
पक्षपातः m ? Благосклонность Предвзятость
अस्मि एव ? видимо, ош. вм. अस्ति एव
निर्भीकता f Бесстрашие
मत्तः От меня

– मम माता क्व?
– अहं न जाने। क्वापि पलायितवती स्यात् सा, अन्ये इव। एतावत् तु वक्तुं शक्नोमि, यत् अद्य तव ग्रामे मया, मम सैनिकैः वा कस्यापि प्राणाः न अपहृताः इति… तत् अस्तु, वद, त्वं किम् इच्छसि?

तत् अस्तु Так, ладно

– मम इच्छा निश्चयेन पूर्येत किं त्वया?
– आम्। तत्र संदेहः एव मा अस्तु।
– एवं तर्हि, त्वं ससैन्यः एतस्मात् ग्रमात् निर्गच्छेः इदानीम् एव। पुनः कदापि त्वया अस्मदीयः एषः ग्रामः न संत्रासनीयः…
– अभ्युपगम्यते मया एतत्, – इति उक्त्वा, तैमूरः सैनिकान् आज्ञापितवान् – सर्वे इतः निर्गच्छन्तु अविलम्बेन। ग्रामे कापि हानिः न भवेत् इति।

अभि–उप–1√गम् Принимать
अविलम्बेन adv Незамедлительно Безотлагательно

तैमूर–सैनिकाः सर्वे, अश्वम् आरुह्य, मौनेन ततः निर्गताः। तैमूरः अपि अश्वम् आरुह्य, उपविश्य–
¬– अयि, बालसिंहः! चिरं जीव, – इति उक्त्वा, ततः निर्गतवान्।
पर्वत–आदिषु निलीय स्थिताः ग्रामजनाः तैमूर–दलस्य निर्गमनं दृढीकृत्य, ग्रामं प्रत्यागताः। ग्रामं निरापदं दृष्ट्वा, ते नितराम् आश्चर्य–समन्विताः जाताः।

दलः m (зд.) Свора Шайка
निरापद् a Безопасный

स्व–गृहस्य पुरतः उपविष्टं सुधीरम् उपसर्प्य, ते प्रवृत्तं सर्वं ज्ञातवन्तः। «जन्मदिनं निमित्तीकृत्य सुयोग्यम् एव उपायनं दत्तं त्वया» इति अवदन् सर्वे। तावता ग्रामं प्रत्यागता माता प्रवृत्तं सर्वं ज्ञात्वा, पुत्रं दृढतया आलिङ्गितवती।

दृढतया adv Крепко

Добавить комментарий

Ваш адрес email не будет опубликован. Обязательные поля помечены *