Автор новеллы – Раскин Бонд, индийский писатель британского происхождения. Практически национальное достояние Индии. Отмечен государственными наградами, в частности орденом Падма Щри. Таким же орденом была награждена Т.Я. Елизаренкова за перевод Ригведы на русский язык. Произведения Раскина Бонда являются основой школьной программы в Индии. В частности, данный рассказ читают в 6-7 классах.
Это мой первый опыт вольного перевода. Поэтому сначала идёт вариант на санскрите, а ниже вы сможете найти мой вариант. Объясню в двух словах свой отход от буквализма. Я много лет мечтаю писать подобные рассказы. Точнее, я их написал порядка нескольких десятков. Впрочем, слово “написал” следует взять в кавычки. Я их “наговорил” в своём уме. Точнее, они мне нашептали себя в моём уме. Но у меня жёсткий запрет на экстериоризацию своих внутренних сокровенных переживаний. Поэтому ни один из сюжетов так и не воплотился в законченное произведение. Однако годы ковыряний на этом поприще помогли выработать своё видение жанра психологического рассказа. И поэтому я позволил себе одно концептуальное изменение в подаче автора, а также несколько дюжин правок, распространений текста и проч. Строго говоря, художественные переводы все вольные, поэтому ничего особенного в этом нет.
Санскритский текст также регулярно позволяет себе вольности. Поэтому те из вас, кто попробуют читать его самостоятельно, обнаружат изрядное количество расхождений с моим вариантом.
ते च नेत्रे
मूलम् – रस्किन् बाण्ड्
अनु – अनुरागजशर्मा
Зн.: 2702
Уровень сложности: ниже среднего
सा यदा प्रकोष्ठिकां (बोगी) प्रविष्टवती, ततः पूर्वं तत्र अहम् आसम् एकः एव। तस्याः आप्रच्छन–अर्थम् आगतौ तस्याः माता–पितरौ एव स्याताम्। तस्याः सुरक्षित–प्रयाण–विषये तौ चिन्ताक्रान्तौ इव(ति) लक्षितं मया। सा गृहिणी तु वस्तु–स्थापन–स्थानम्, उपवेशन–प्रकारं च अपि ज्ञापयित्वा, अवदत्– «अपरिचितैः सह संभाषणं मास्तु» इति। तयोः शुभ–प्रयाण–कथन–समये एव रैल्यानं प्रस्थितम् एव।
तेषु दिनेषु अहं पूर्णतः अन्धत्वम् आप्तवान् आसम्। तस्मात् सा कथं स्यात् इति मया अवगन्तुं न शक्तम्। किंतु तया धृतायाः पादरक्षायाः शब्दस्य श्रवणात् मया ऊहितं, यत् सा ‘हवायि’पदरक्षां धृतवती अस्ति इति।
तस्याः रूपं मनःपटले चित्रयितुं मया प्रयासः कृतः। प्रायः तस्य स्वरूपस्य अवगमनं मया प्राप्तुं न शक्येत, इति अभात्। तस्याः ध्वनेः श्रव्यत्वं, पादरक्षायाः ध्वनिः च मम मनः अहरत्।
– भवती किं डेहराडून्–पर्यन्तम् अपि गच्छति? – मया पृष्टम्।
प्रायः मया अन्धकाय–बहुले कोणे उपविष्टः स्यात्। अतः मम ध्वनिः तस्यां किंचित् दिग्भ्रान्तिम् एव अजनयत्, इति भाति।
– अत्र अन्यः अपि स्यात्, इति मया न ऊहितम् आसीत्, – इति साश्चर्यम् अवदत् सा।
दृष्टिमन्तः क्वचित् नेत्रयोः पुरतः प्रवर्तमानम् अपि अवगन्तुं न शक्नुवन्ति। युगपत् बहवः विषयाः अधिग्रहीतव्याः भवन्ति तैः, इति अतः एवं भवति, इति भाति। किंतु दृष्टि–दोष–युक्ताः अन्धाः तु न भवन्ति तादृशाः। ये विषयाः अन्यैः ज्ञानेन्द्रियैः ग्राह्याः स्युः, तान् ते अवश्यम् अधिगृह्णन्ति।
– मया भवत्याः आगमनं न दृष्टम्। किंतु आगमन–शब्दः अवश्यं श्रुतः, – मया उक्तम्।
‘मम अन्धत्वं यथा न ज्ञायेत, तथा व्यवहर्तुं शक्यं किम्?’ इति चिन्तनं सकृत् मनसि आगतम्। ‘एकत्र एव उपविश्येत चेत्, तत् अशक्यं तु न’ इति अवदत् मनः।
– अहं सहरानपुरे अवतरिष्यामि। मम पितृव्या आगमिष्यति तत्र मम मेलनाय, – सा तरुणी अवदत्।
– एवं तर्हि मया जागरूकतया व्यवहरणीयम्। प्रायः पितृव्याः सर्वम् अपि संदेहेन पश्यन्त्यः त्रासयन्ति।
– भवता कुत्र गम्यते?
– डेहराडूनं प्रति, ततः मस्सूरं प्रति च।
– अहो, भाग्यशालिता भवतः! मया अपि मस्सूरु गतं चेत्, वरम् अभविष्यत्। अक्टोबर्मासे तत्रत्यानां पर्वतानां सौन्दर्यम् अपूर्वं भवति, इति श्रूयते।
– सत्यम्। इदानीं तत्रत्यस्य सौन्दर्यस्य आस्वादनाय योग्यः समयः। इदानीं तत्रत्याः पर्वताः पुष्पैः अलङ्कृताः भवन्ति। सूर्यः अपि हितावहः भवति। रात्रौ अग्नेः पार्श्वे उपविश्य, मृदु–मधुर–सङ्गीतस्य श्रवणम् अलौकिकम् आनन्दं जनयति। यात्रिकाणां वैरल्यात् तत्रत्याः मार्गाः अपि सम्मर्द–रहिताः भवन्ति इदानीम्। अतः एषः अक्टोबरमासः पर्वत–सौन्दर्यस्य आस्वादनाय योग्यः कालः, इति अत्र न अस्ति संदेहः।
तस्याः प्रतिवचनं किमपि न श्रुतम्। «मया उक्तं तया किं न श्रुतं स्यात्?» इति चिन्तनं मनसि आगतम्। «मां किं कल्पना–विलासितं भावितवती स्यात् सा?» – इति प्रश्नः अपि आगतः।
– मया उक्तं युक्तं ननु? – इति पृष्टं मया।
मम वचने आश्चर्यकरं किमपि न लक्षितं स्यात् तया। «अथवा मम अन्धत्वं सा आगतवती स्यात् अपि» इति एतत् मम चिन्तनं निराधारम्, इति तस्याः प्रश्नः एव न्यरूपयत्।
– भवान् वातायनात् बहिः किमर्थं न पश्यति? – सा अपृच्छत्।
अहं वातायन–शलाकां स्पृशन् दृढीकृतवान्, यत् कवाटः उद्घाटितः एव अस्ति इति। बाह्यं भौगोलिकं सौन्दर्यम् आस्वदमानः इव अहं बहिः दृष्टिं प्रासारयम्। यन्त्रस्य सायास–ध्वनिः, चक्राणां सर्पण–ध्वनिः च सम्यक् एव लक्षितः मया। विद्युतः स्तम्भानाम् अतिक्रमणम् अन्तश्चक्षुषः पुरतः कल्पितं मया।
– अत्र उपविष्टाः वयं चलन–रहिताः, वृक्ष–आदयः च सवेग–गतिमन्तः च, इति भासते। भवत्याः अपि अयम् अंशः लक्षितः स्यात्.., – संभाषणम् अनुवर्तयितुम् इच्छता मया उक्तम्।
– आम्। याने प्रयाण–अवसरे सर्वेषाम् अपि अयम् एव अनुभवः, – सा अवदत्।
किंचित् अनन्तरं सा अपृच्छत्–
– किं कोऽपि पशुः, पक्षी वा दृश्यते भवता? एषु दिनेषु एतस्मिन् प्रदेशे तेषां विरलता सम्पन्ना, इति श्रूयते।
अहं स्याः दिशि मुखं कृतवान्। आवयोः मध्ये पुनः अपि किंचित् कालं मौनम् अतिष्ठत्।
– भवत्याः मुखं मनोहरम्, – मया उक्तम्। मया धार्ष्ट्यं यत् अवलम्ब्यमानम् अस्ति, तत् किम् एतस्यै रोचेत, इति चिन्तितं मया। काभ्यश्चित् एव महिलाभ्यः एतादृशी प्रशंसा रोचते, इति अहं जानामि स्म। सा सुमधुरम् अहसत्। तस्याः हास–ध्वनिः मम कर्णयोः अगुञ्जत्।
– मम मुखं सुन्दरम्, इति बहवः वदन्ति। तत् मह्यं विशेषतः न अरोचत कदापि। किंतु भवता कृतः «मनोहर»शब्द–प्रयोगः तु हितावहः।
«अहो, भवत्याः मनः अपि सुन्दरम्!» – इति स्वगतम् उक्त्वा, अहम् अवदम्–
– मनोहरं यत् भवेत्, तत् सुन्दरं तु अवश्यं भवेत् एव!
– भवान् तु धार्ष्ट्य–वचनः तरुणः! – सा सप्रशंसम् इव अवदत्। क्षणं विरम्य, तया पृष्टम् – किंतु भवान् किमर्थम् आधिक्येन गम्भीरवदनः भवति?
एतस्याः निमित्तं वा मया स्मित–मुखता अवलम्बनीया इति चिन्तितं मया। एकाकिता, असहायकता च मम मुखस्य हासं विलोपयति, इति एतत् सत्यं मया न प्रकटितम्।
– अचिरात् एव भवत्याः अवतरण–स्थलं प्राप्येत, इति भाति?
– आम्। एतत् प्रयाणं न सुदीर्घम्। वस्तुतः दीर्घ–प्रयाणं मह्यं सर्वथा न रोचते।
दीर्घं प्रयाणं यदि स्यात्, तर्हि भवत्याः मधुराणि वचनानि श्रोतुम् अधिकः अवसरः मया प्राप्येत, इति एतत् जिह्वाग्र–पर्यन्तम् आगतम् अपि वचनं मया न प्रकाशितम्। तस्याः ध्वनौ निर्झरिण्याः माधुर्यम् आसीत्।
मम हृदयम् अवदत्– «अवतरण–समनन्तरम् एषा मम मेलनं कदाचित् विस्मरेत् अपि। किंतु मम मनसि तु प्रयाणान्तं यावत्, तद्–अनन्तर–काले च एतस्य प्रयाणस्य मधुरा स्मु(स्मृ)तिः अवश्यं तिष्ठेत्» इति।
यन्त्रस्य ‘कुहू’शब्दः श्रुतः। चक्राणां वेगगतौ क्रमेण मन्दता आगता। सा उत्थाय स्वीयानि वस्तूनि नयन–योग्यानि अकरोत्। एषा केशान् बद्ध्वा, कबरीं रचितवती स्यात्, अथवा विकीर्ण–केशा, कुटिलालका च स्यात्, उत नितम्ब–लम्बिन्या वेण्या युक्ता स्यात्, उत अहो केशान् कर्तयित्वा आधुनिकताम् आश्रितवती स्यात् इति मया न अवगतम्।
यानं मन्दं स्थानकं प्राप्नोत्। जनानां, फल–आदि–विक्रेतॄणां, भारवाहाणां च ध्वनिः कलकलः च श्रुतः। तस्याः पितृव्यायाः ध्वनिः अपि श्रुतः।
– साधयामि तावत्, – इति सा अवदत्।
मत्–समीपे एव तिष्ठति एषा इति ध्वनि–श्रवणात् अवगतं मया। तस्याः केश–राशितः निर्गतः परिमलः अपि एतम् अंशं द्रढयति स्म। हस्तम् उन्नीय, तान् केशान् किं स्पृशेयम्, इति भावः सकृत् मनसि आगतः। किंतु परिमल–मात्रं तत्र विसृज्य यानात् अवतीर्णवती आसीत् सा।
पुष्पकरण्डकः भञ्जयितुं शक्येत, पुष्पाणि अपि मर्दयितुं शक्यनि, किंतु पुष्पाणां सौगन्ध्यं तु वायौ तिष्ठति एव ननु?
शयन–प्रकोष्ठिकायाः द्वारे जनानां कोलाहल–ध्वनिः श्रुतः। कश्चन प्रयाणिकः अस्माकं प्रकोष्ठिकाम् आरूढवान्। द्वार–पिधान–शब्दः अपि श्रुतः। बाह्य–जगतः संपर्कः छिन्नः इव जातः। अहं मम शयनिकायाम् उपाविशम्। षीष्कारस्य अनन्तरं मम सहप्रयाणिकानां च अग्रेसरणम् आरब्धम्। सहप्रयाणिकत्वम् अभिनेतुं मया मनसः संनाहः कृतः।
रैलयानस्य वेगः प्रवृद्धः। चक्राणि संघर्ष–ध्वनिम् उदपादयन्। क्रमेण चक्र–ध्वनिः ताल–अनुगुणताम् अगच्छत्। प्रकोष्ठिका भार–वहनात् अक्रन्दत् इव। अहं हस्तं प्रसार्य, वातायनं स्पृष्ट्वा प्रकाशमये परिसरे शून्यां दृष्टिं निहितवान्।
वातायनात् बहिः प्रकाशमये जगति प्रवर्तमानानां विषयाणां विषये चिन्तनं भवति सर्वदा रोम–अञ्च–जनकम्।
मम प्रकोष्ठिकां प्रविष्टवान् सहप्रयाणिकः मदीये कल्पनालोके वाक्–शिलां प्राक्षिपत्।
– भवतः निराशा जाता स्यात्। या अवतीर्य गता तद्वत् सुन्दरः न अस्ति अहम्, – सः प्रयाणिकः अवदत्।
– सा तु मनोहरा तरुणी। तस्याः केशाः दीर्घाः आसन्, उत कर्तिताः, इति किं भवान् वदेत्? – मया पृष्टम्।
तदा सः अवदत्–
– अहं न लक्षितवान् तत्। वस्तुतः मया लक्षिते तस्याः नेत्रे। ते तु कमनीये आस्ताम्। किंतु ते उपयोग–अनर्हे। तत् नाम संपूर्ण–अन्धत्वं तस्याः। किम् एतत् न लक्षितं भवता?
ПО ТУ СТОРОНУ ГЛАЗ
Вольный перевод: Р. Навьян, 2020.
До Роханы я ехал в купе в гордом одиночестве. Затем подсела ты. Двое провожающих были, по-видимому, твоими родителями. Я заметил, что они пеклись о комфорте твоей поездки. Женщина провела инструктаж насчёт того, куда класть вещи и как сидеть. А затем сказала: «С незнакомцами не разговаривай». Они пожелали счастливого пути, и наш поезд тронулся со станции.
В те дни я был совершенно слеп, поэтому не могу сказать, какая ты. Но по типичному шлепанью твоей обуви я понял, что ты одета в сланцы.
Я попытался мысленно представить твой внешний вид. Было очень похоже, что мне это не удастся. Но звучание твоего голоса и шлёпанье твоих сланцев заполонили моё сердце.
– Вы тоже едете до Дехры? – спросил я.
Похоже, что я сидел в тёмном углу, потому что мой голос застал тебя врасплох.
– Я не знала, что здесь ещё кто-то есть, – изумлённо произнесла ты.
Вот так вот, люди с хорошим зрением частенько не могут заметить того, что происходит прямо перед ними. Полагаю, на них просто слишком много всего приходится. Иное дело те, чьё зрение поражено. Им неизбежно приходится отслеживать все те детали, что доступны оставшимся чувствам.
– Я тоже вас не видел, – сказал я, ничуть не покривив душой. – Но, разумеется, слышал, как вы вошли.
Меня занимала мысль, можно ли утаить тот факт, что я слеп. Здравый смысл подсказывал, что если сидеть на одном месте, то это не так уж и нереально.
– Я схожу в Сахаранпуре. Там меня встречает тётушка, – сказала ты.
– В таком случае мне нужно вести себя осторожно. Тётушки зачастую глядят на всё с подозрением и нагоняют жути.
– А вы докуда едете? – спросила ты в ответ.
– До Дехры, а затем в Массури.
– Ох и повезло же вам! Было бы здорово, если бы и я ехала до Массури. Говорят, в октябре тамошние горы необычайно красивы.

Permalink
Зорко одно лишь сердце. Самого главного глазами не увидишь. (С)