ब्राह्ममुहूर्तः व्यायामः च
वैद्यः विद्याधीश–अनन्ताचार्य–काशीकरः
ज्ञान–अर्थम्, अध्ययन–अर्थम् च योग्यः मुहूर्तः ब्राह्म–मुहूर्तः। एकस्यां निशि पञ्चदश मुहूर्ताः आयान्ति। एकैकः मुहूर्तः अष्टचत्वारिंशत्–निमष–आत्मकः विद्यते। तेषु पञ्चदशासु रात्रि–मुहूर्तेषु उपान्त्यः चतुर्दशः वा मुहूर्तः ब्राह्ममुहूर्तः।
तस्मिन् ब्राह्मे मुहूर्ते उत्थातव्यम् इति आयुर्वेद–आदेशः। अतः रार्ति–काले एव अन्तिमं अष्टचत्वारिंशत्–निमेष–आत्मकं मुहूर्तं हित्वा उपान्त्ये अष्टचत्वारिंशत्–निमेष–आत्मके काले सर्वैः उत्थानं कर्तव्यम् एव। यदि सूर्य–उदयः षड्वादन–समये भवति, तर्हि षड्वादनात् पूर्वे ये अष्टचत्वारिंशत् निमेषाः (५.१२तः ६.००) तान् वर्जयित्वा, पश्चिमे अष्टचत्वारिंशत्–निमेष–आत्मके काले नाम ४.२४ तः ५.१२ इति अस्मिन् काले निद्रां त्यक्त्वा शय्यां दूरीकृत्य उत्तिष्ठेद् इति भावः। एषः एव ब्राह्ममुहूर्तः। अतः ब्राह्मे मुहूर्ते उत्तिष्ठेत्।
किमर्थम् इति चेत् आरोग्य–अर्थं मङ्गल–अर्थम्, अध्ययन–अर्थं, समृद्धि–अर्थम् ऐश्वर्य–प्राप्ति–अर्थं मोक्ष–अर्थं च इति उत्तराणि न एकानि सन्ति अन्यानि अपि। इह आरोग्यम् अधिकृत्य एव किंचित् ब्रुमः।
वात–दोषः प्रत्यहं कालद्वये बलवान् भवति – दिन–अन्ते निश–अन्ते च इति। दिने चत्वारः यामाः (३ hrs period) सन्ति, रात्रौ अपि। दिन–अन्ते नाम दिवसस्य अन्तिमे यामे, निशान्ते नाम रात्रेः अन्तिमे यामे। एकैकः यामः प्रायेण चतुर्मुहूर्त–आत्मकः (३.७५) विद्यते। अतः नियमेन ब्राह्ममुहूर्तः निश–अन्ते आयाति। ब्राह्मे मुहूर्ते वातदोषः बलवान् भवति। मल–अनुलोमनं वात–कार्यम्। अतः मल–त्याग–अर्थम् अनुकूलः कालः एषः विद्यते। अस्मिन् गते सति, वात–दोषः किंचित् बलहीनः भवति। तस्य मल–अनुलोमन–कार्यम् अपि बाधते। असम्यक् मल–त्यागे अग्नि–दुष्टिः भवति। तस्मात् च सर्वरोग–उत्पत्तिः भवितुम् अर्हति।
अभ्यङ्गः वातहारकः अस्ति। अतः वातस्य उल्बण–अवस्थायाम् एव अभ्यङ्गः कर्तव्यः। व्यायाम–अर्थं शरीर–लाघवता आवश्यकी, चतलगुणः च अपेक्षितः। वातस्य लाघवात् चलत्वात् च व्यायामः अपि अस्मिन् एव वातकाले कर्तव्यः। प्राणः हि नाम वायु–विशेषः। तस्य आयामः प्राणायामः। तदर्थम् अपि अयम् एव कालः अनुकूलः। एकाग्र–मनसा ध्यानम् ईश–चिन्तनम् अपि अस्मिन् एव आरब्धं चेत् एव वरम्। मनः च अस्पृष्ट–बहुविषयम् अस्मिन् काले स्थिरीभवति। अतः अध्ययन–अर्थम् अपि अनुकूलः एषः ब्राह्ममुहूर्ते आरब्धः प्रातःकालः। सम्यक् मल–अनुलोमनम्, अभ्यङ्गः, व्यायामः, प्राणायामः, ध्यानम्, अध्ययनम् इति एते सर्वे एव परमारोग्यकराः भावाः सन्ति। अतः आरोग्य–प्राप्ति–अर्थं सर्वैः एव ब्राह्मे मुहूर्ते उत्थानं कर्तव्यम्।
व्यायामः नाम शरीर–आयास–जनकं कर्म। शरीर–आयासः नाम श्रमजन्याः शरीरचेष्टाः। ताः शरीरस्य बलं, स्थैर्यं च वर्धयन्ति। ताः सर्वाः व्यायम–इति–संज्ञया अवगन्तव्याः। आधुनिके काले प्रातः उत्थानात् अरभ्य रात्रि–निद्रा–पर्यन्तम् उदर–परिपालन–अर्थं बहूनि कार्याणि विद्यन्ते। अतः व्यायाम–अर्थं समयः अल्पः एव प्राप्तुं शक्यः। भवतु अल्पः एव, किंतु प्रतिदिनं न्यून–अतिन्यूनं पञ्च–निमेश–आत्मकः समयः अपि पर्याप्तः। तावान् तु परम–व्यग्रेण प्रधान–मन्त्रि–महोदयेन अपि लभ्यते एव। अतः अन्यैः समय–अभावस्य कारणं न कथंचिदपि दातव्यं व्यायामाकरणाय।
सन्ति च अनेक–प्रकाराः व्यायाम–विशेषाः, ये च कर्तुं सरलाः अल्पकाल–अभिधेयाः च। योग–उक्तानि आसनानि तेषु अपि सूर्कनमस्कारः सर्वेषां कृते योग्यः प्रतिभाति। एते च व्यायाम–विशेषाः कथं अभ्यसनीयाः इति अस्य उत्तरं बहुषु योगासन–पुस्तकेषु सरलतया द्रष्टुं शक्यं, आन्तरजाले अपि सहजतया एव प्राप्यते। प्रतिदिनं स्ववयुः अनुसृत्य स्वबलं समीक्ष्य उपलब्ध–समयं च वीक्ष्य, पञ्च, दश, विंशतिः, पञ्चाशत्, शताधिकाः वा सूर्न–नमस्काराः करणीयाः।
एते च व्यायाम–प्रकाराः प्रातःकाले एव प्राधान्येन करणीयाः विद्यन्ते। प्रातः निद्रातः उत्थाय मल–विसर्जनं कृत्वा, दन्त–धावनं कृत्वा, शरीरम् अभ्यङ्ग–विधिना तैल–अक्तं कृत्वा व्यायामः कर्तव्यः सर्वैः। मल–विसर्जन–समये स्वमल–परीक्षणम् अपि कर्तव्यम्। किमर्थम्? अजीर्ण–ज्ञान–अर्थम्। यदि पुरीष–भेदः, द्रव–मल–प्रवृत्तिः, उदर–गौरवम्, दुष्टः उद्गारः इत्यादिषु कानिचन लक्षणानि दृश्यन्ते, तर्हि तत् अजीर्ण–सूचकम्। अजीर्ण–अवस्थायां व्यायामः न करणीयः। अतः व्यायामात् प्राक् एतानि लक्षणानि अवश्यम् एव परीक्षितव्यानि। येषां कृते प्रातः समय–उपलब्धिः न अस्ति एव, तेषां कृते सायं व्यायाम–समयः उचितः। तैः प्रातः भोजनस्य पश्चात् षट्घण्टा–आत्मकं सप्त–घण्ट–आत्मकं वा कालं त्यक्त्वा, यदा उदर–लाघवं संजायते, तदा एव व्यायामः कर्तव्यः।
प्रतिदिनं व्यायाम–अभयासेन शरीरे लाघवता आयाति। कर्म–सामर्थ्यं च वर्धते। जठराग्निः, बुभुक्षा पचन–क्षमता च वर्धते। अतिरिक्त–मेदसः क्षयः भवति। शरीरं दृग्–गोचर–पुष्ट–मांस–पेशी–युतं विभक्तं घनं न भवति। शरीरं दुःख–सहिष्णु व्याधि–सहिष्णु व्याधि–प्रतीकार–क्षमं च भवति। शरीरे धातूनां स्थैर्यम् उपलक्ष्यते। प्रतिदिन–चर्यायाः आहार–विहाराभ्यां ये दोषाः, मलाः च शरीरे जायन्ते, तेषां क्षयः अपि व्यायामात् प्रतिदिनं भवितुम् अर्हति।
व्यायामः दिनचर्यायाः अतिमहत्त्व–युतः भागः अस्ति। न्यून–अतिन्यूनं हेमन्त–नाम्नि ऋतौ, शिशिर–ऋतौ, वसन्त–ऋतौ च विशेषेण प्रभूतः व्यायामः कर्तव्यः एव। हेमन्त–शिशिर–वसन्ताः संवत्सरे मार्ग–शीर्ष–पौष माघ–फाल्गुन–चैत्र–वैशाख–आख्येषु मासेषु यदि वा नवम्बर्, डिसेम्बर, जनवरी, फेब्रवरी, मार्च्, एप्रिल् इति एतेषु आङ्गल–मासेषु विद्यते। शेषेषु मासेषु मन्द–व्यायामः तु आचरणीयः एव।
अत्युत्साहेन अगिव्यायामः कथंचिदपि न कर्तव्यः। तेन बलारोग्य–हानिः एव भविष्यति। अतः सर्वैः प्रतिदिनम्, ऋतुं कालं, बलं, प्रकृतिं, वयः, जीर्ण–अजीर्णतां च अभिसमीक्ष्य उचितः व्यायामः अवश्यम् एव विधेयः इति शम्।