Санскрит. Аудирование. Средний уровень

Перед занятием рекомендую прочитать мои пояснения ниже.

Особенности дикции
सः = /सह/ (в итоге становится сходно до степени смешения с सह)
ब्रह्मणः = /ब्रम्हणः/ (типично для хиндифонов)
पिबति = /पिवति/ (упоминал ранее)
Кроме того ритор дзякает на ज, цякает на च, сякает на श. И это следует признать допустимым вариантом реализации фонем.
Я глоссировал только те слова, которые были незнакомы мне. В паре мест так и не понял деталей (пометил знаком вопроса). Но с учётом объёма текста общий процент понимания близок к ста.
Легенда:
{} – сказанное избыточно
<> – добавил от себя недостающее
() – мой вариант замены предшествующего слова
Речь содержит особые синтаксические модели, не встречавшиеся мне ранее: कारणं в позиции союза Потому что, इत्युक्ते предположительно в позиции вводной фразы Короче говоря; इति कारणेन вместо более привычного इति कारणतः или कारणात्.
Для посторонних поясню: не подумайте, что дяденька ругается или возмущается. Нет, это он так сказку рассказывает. Хорошую такую, поучительную сказку.
Насчёт Short story в заглавии ролика – это явный стёб. Объём рассказа такой, что даже за его письменную форму браться можно лет через пять плотного изучения языка, не раньше. Соответственно, средним уровень аудирования здесь я назначил лишь по признаку членораздельной дикции. По объёму речь слишком длинная. Но! Ниже я привожу ключ, поэтому слушать рассказ можно сразу с опорой текст.
Совет: в настройках видео можно выбрать замедленную скорость воспроизведения. Коэффициент замедления 0,75 даёт недурной результат, позволяющий успевать вдумчиво читать и одновременно слушать.
Признаюсь прямо. На самом деле изначально я выбрал этот текст для демонстрации дзяканья (он включён мной в обзор, посвященный звучанию ज в санскрите). Но затем мне захотелось проверить свои способности к аудированию: вот прямо взять, транскрибировать и получить на выходе текстуальное представление устной речи. Я понятия не имел, какой получится объём, но обратил внимание на членораздельность дикции и надеялся на благоприятный исход затеи. В общем, результат ниже, и я им вполне доволен.
Для замечаний существует форма комментариев.

 

КЛЮЧ

Знаков (без правок): 2770

एकः ग्रामः अस्ति। तस्य ग्रामस्य समीपे एकः मार्गः अस्ति। तस्मिन् मार्गे एकः कृष्णकायः शिलाखण्डः आसीत्।
सः शिलाखण्डः मार्ग–मध्ये एव आसीत्। बहवः जनाः तस्मिन् मार्गे गमनं कुर्वन्ति, आगमनं कुर्वन्ति। गमन–आगमन–समये सर्वेषां जनानां पाद–घातः भवति, सर्वे जनाः बहु कष्टम् अनुभवन्ति, परन्तु सर्वे जनाः स्व–स्व–मार्गे गच्छन्ति।
एक–दिवसे तस्मिन् मार्गे एकः साधुः आगच्छति स्म। शिलाखण्डेन {सह} तस्य पाद–घातः अभवत्। सः अतीव कष्टम् अनुभूतवान्। सः चिन्तितवान्– «यथा कष्टम् अहम् अनुभूतवान्, तथैव कष्टम् सर्वे जनाः अनुभवन्ति» <इति>।
अतः सः बहु–प्रयत्नं कृत्वा, तं शिलाखण्डं तस्मात् मार्गात् उत्पाट्य, {सः} बहिः क्षिप्तवान्, स्व–मार्गे गतवान् <च>।
सः शिलाखण्डः लुठित्वा, लुठित्वा, एकस्य वृक्षस्य मूले स्थिरः अभवत्।
दैवात् सः वृक्षः बिल्व–वृक्षः आसीत्। सः शिलाखण्डः बिल्व–वृक्षस्य मूले {सः} स्थिरः अभवत्।
प्रातःकाले ग्रामस्य जनाः काष्ठ–कर्तन–अर्थम् तत्र अरण्यं प्रति समागताः। ते सर्वे दृष्टवन्ताः – बिल्व–वृक्षस्य मूले एकः कृष्णकायः पाषाण–खण्डः अस्ति। ते सर्वे बहु आनन्दिताः, आश्चर्य–चकिताः च अभवन्। ग्रामस्य जनाः सर्वे चिन्तितवन्तः– «अहो, अस्माकं सर्वेषाम् अतीव आनन्दस्य विषयः, सौभाग्यस्य विषयः, यत् भगवान् शङ्करः कैलासं परित्यज्य, शिवलिङ्ग–रूपेण अस्माकं ग्रामं समागतः»।
ते सर्वे जनाः स्व–ग्रामं गत्वा, तत्र उच्चैः उक्तवन्तः–
– आगच्छन्तु! आगच्छन्तु, सर्वे जनाः! पश्यन्तु – अस्माकं ग्रामस्य अतीवं सौभाग्यम् अभवत्, यत् भगवान् शङ्करः शिवलिङ्ग–रूपेण अस्माकं ग्रामं प्रति समागतः।
बहवः जनाः आगतवन्तः। ते सर्वे दृष्टवन्तः, सर्वे आनन्द–तुण्डिलाः अभवन्। ते सर्वे तस्य वृक्षस्य मूले एकस्य चत्वरस्य निर्माणं कृतवन्तः। अनन्तरं तस्य शिलाखण्डस्य शिवलिङ्ग–रूपेण तत्र प्रतिष्ठां कृतवन्तः।

तुण्डिलः a Говорливый?
चत्वरम् n Выровненная площадка для отправления культа

ब्रह्मणः वेद–घोषं कृतवन्तः। सर्वेऽपि भक्ताः बहुविध–पूजा–सामग्रीं गृहीत्वा, तत्र समागताः। सर्वे जनाः तत्र प्रथमं तस्य शिलाखण्डस्य शिवलिङ्ग–रूपेण प्रतिष्ठां कृतवन्तः, जलेन स्नानं कृतवन्तः, अनन्तरं दुग्ध–धारय स्नानं कृतवन्तः, अनन्तरं नवनीत–लेपनं कृतवन्तः, अनन्तरं धूप–दीप–गन्ध–माल्य–चन्दन–द्वारा तस्य सौरस–उपचर–पूजां कृतवन्तः।

सौरस–उपचर–पूजा – особый вид литургии?

ग्रामस्य सर्वे जनाः आनन्दिताः। प्रतिदिनं तत्र महोत्सवः प्रचलति। प्रतिदिनं तत्र आनन्दः प्रचलति। प्रतिदिनं वेद–घोषः। प्रतिदिनं कीर्तनानि। इत्युक्ते सः {शिलाः} शिलाखण्डः अतीव आनन्देन तिष्ठति, सः वृक्षोऽपि आनन्देन तिष्ठति।
एषा कथा काल्पनिकी आस्ति। बहु–कालः गतः। सः शिलाखण्डः प्रतिदिनं दुग्ध–स्नानं, प्रतिदिनं नवनीत–लेपनं, प्रतिदिनं पूजां प्राप्य, अतीव आनन्दितः आसीत्। सः वृक्षः अपि अतीव आनन्दितः आसीत्। कारणं जनाः अन्येषां वृक्षाणां कर्तनं कृतवन्तः, परन्तु सः वृक्षः देव–वृक्षो ऽस्ति। देव–वृक्षस्य एकं पत्रम् अपि न कोऽपि लुनाति स्म।

लुनाति – 9√लू Ощипывать

अतः सः वृक्षः शाखाः, प्रशाखाः विस्तार्य, महावृक्षः अभवत्। सः वृक्षः अतीव आनन्देन तिष्ठति। कारणं प्रतिदिनं दुग्ध–धारा, प्रतिदिनं जलस्य धारा, यत् शिवलिङ्गस्य उपरि जनाः प्रवाहयन्ति, तत् सर्वम् सः वृक्ष एव पिबति।
जनाः अन्येषां वृक्षाणां मूले जल–दानं न कुर्वन्ति। परन्तु एषः देव–वृक्षः। अत एव सर्वे जनाः एतस्य वृक्षस्य <एव> मूले {एव} जल–दानं कुर्वन्ति। जनाः अन्येषां वृक्षानां कर्तनं कुर्वन्ति। परन्तु एषः देव–वृक्षः, अतः न कोऽपि तस्य कर्तनम् अपि करोति स्म।
इत्युक्ते, दीर्घ–काल–पर्यन्तं सः वृक्षः अतीव–आनन्देन शाखाः, प्रशाखाः विस्तार्य, आनन्देन तिष्ठति, सः शिलाखण्डो ऽपि आनन्देन तिष्ठति।
बहु–कालः गतः। एकदा वृक्षस्य, शिलाखण्डस्य च उभयोर् मध्ये कलहः अभवत्। कलहस्य कारणं – अकङ्कारः।
वृक्षः उक्तवान्–
– रे, शिलाखण्ड! किञ्चित् स्व–भूत–कालं स्मरतु भवान्। भवान् कुत्र पतितः आसित्?! मार्ग–मध्ये पतितः आसीत्! गमन–आगमनं कुर्वन्तः जनाः प्रतिदिनं भवतः शिरसि पाद–घातं कृतवन्तः। भवान् धूलि–धूसरित–शरीरो ऽसीत्। परन्तु यदा भवान् मम चरण–तले शरणं गृहीतवान्, तदा (ततः) आरभ्य भवतः पूजा प्रचलति। मम चरण–तले आगतवान् इति कारणेन {जनाः} भवन्तं देव–रूपेण सर्वे जनाः पूजान्ति। कस्य प्रतापेण? मम प्रतापेन!

धूलि–धूसरित–शरीरः С серым от пыли телом
प्रतापः m Величие

सः शिलाखण्डो ऽपि उक्तवान्–
– रे, वृक्ष! किञ्चित् लज्जां कुरु! इतः पूर्वं भवतः मूले न कोऽपि जनः जल–दानं कृतवान्, इतः पूर्वं यथा अन्ये वृक्षाः सन्ति, तथैव भवतः स्थितिः आसीत्। परन्तु यदा आरभ्य अहम् अत्र आगतवान्, अहं देव–रुपेण पूज्ये, इति कारणेन भवान् अपि मम कारणेन पूज्यते। जनाः अन्येषां वृक्षाणां मूले जल–दानं न कुर्वन्ति। परन्तु सर्वे जनाः भवतः मूले जल–दानं कुर्वन्ति। कारणं – अहम् अस्मि। इति कारणेन। जनाः मम शिरसि प्रतिदिनं जलस्य, दुग्धस्य धारां प्रवाहयनति। किम् अहं तत् पिबामि? अरे, भवान् पिबति, भवान् आनन्देन तिष्ठति, प्रतिदिनं जलं पिबति, प्रतिदिनं दुग्धं पिबति, प्रतिदिनं भवान् आनन्देन तिष्ठति। तत् कस्य कारणेन? मम कारणेन।
शिलाखण्डः वदति–
– रे वृक्ष! मम कारणेन भवतः पूजा भवति।
वृक्षः वदति–
– रे, शिलाखण्ड! मम कारणेन भवतः पूजा भवति।
इति उभयोर् मध्ये अहङ्कार–रूपेण महान् कलहः अभवत्।
अन्ते निर्णयः गृहीतः – विच्छेदः। «इतः परं मिलित्वा न तिष्ठावः। इतः परं विच्छेदं कुर्वः»। इति चिन्तयित्वा, प्रातःकालतः पूर्वं इत्युक्ते सूर्य–उदयतः पूर्वं शिलाखण्डः तस्य वृक्षस्य मूलं परित्यज्य, अन्यथा लुठितवान्।
अपिच, लुठित्वा, लुठित्वा, नद्याः तीरे भल्लूक–शय्यायां सः स्थिरः अभवत्।
वृक्षः अन्यत्र, शिलाखण्डः अन्यत्र।
प्रातःकाले ग्रामस्य जनाः विवध–पूजा–समग्रीं हस्ते गृहीत्वा, देव–पूजां कर्तुं वृक्षस्य मूलं समागताः। ते सर्वे दृष्टवन्तः– अहो, आश्चर्यम्! वृक्षः अस्ति, परन्तु देवः नास्ति। «देवः कुत्र गतवान्? देवः कुत्र गतवान्?» इति सर्वे तत्र अन्वेषणं कृतवन्तः, परन्तु देवः कुत्रापि न मिलितवान्।
अनन्तरं सर्वे ग्रामस्य जनाः अतीव दुःखिताः। ते सर्वे स्व–स्व–गृहं प्रतिनिवृत्ताः अभवन्।
परन्तु ग्रामस्य केचन लोभिनः यूवकाः {ते} चिन्तितवन्तः– «यदि देवः नास्ति, तर्हि देवस्य वृक्षस्य महिमा कोऽपि अस्ति वा? नास्ति। यदि देवः नास्ति, तर्हि आगच्छन्तु एतस्य वृक्षस्य कर्तनं करिष्यामः»।
इति चिन्तयित्वा, ते केचन लोभिनः ग्रामस्य यूवकाः कुठर–आदिकं हस्ते गृहीत्वा, तं वृक्षम् आरोढवन्तः। अनन्तरं तस्य वृक्षस्य शाखाः, प्रशाखाः छिन्नवन्तः।

महिमा m (महिमन्) Величие

बहु–कालतः सः वृक्षः दुग्धं पीतवान्, जलं पीतवान्, महावृक्षः आसीत्। न कोऽपि जनः तस्य देव–वृक्षस्य कर्तनं पुर्वं कृतवान्। अतः महावृक्षः आसीत् इति कारणेन ते सर्वे यूवकाः «अधिकम् अस्माकं काष्ठ–प्राप्तिः भविष्यति» इति चिन्तयित्वा, तस्य वृक्षस्य शाखाः, प्रशाखाः सर्वं छिन्नवन्तः।
सः वृक्षः पूर्णतया मुण्डितः अभवत्। सः वृक्षः बहु रोदनं कृतवान्। बहु रोदनं कृतवान्, परन्तु न कोऽपि जनः तस्य रोदनं श्रुतवान्। तस्य वृक्षस्य मुण्डनम् अभवत्।
सः शिलाखण्डः नद्याः तीरे पतितः आसीत्। नद्याः तीरे भल्लूक–शय्यायां सः स्थिरः आसीत्।
प्रातःकाले, यदा तस्य उपरि बालसूर्यस्य किरणः पतति स्म, तदा तस्य शरीरात् ज्योतिः निस्सरति स्म। कारनं दीर्घ–काल–पर्यन्तं दुग्ध–स्नानं, दीर्घ–काल–पर्यन्तं नवनीत–लेपनं इति कारणेन तस्य शरीरं अतीव सुन्दरं मस्सूर्णं (?) सुन्दरम् आसीत्। इति कारणेन तस्य शरीरात् ज्योतिः निस्सरति स्म।
तस्मिन् समये एकः चर्मकारः नदी–पारं करोति स्म। सः चर्मकारः <तं ज्योतिषं> दृष्टवान्, अपिच बहु आश्चर्यं, आनन्दं च प्राप्तवान्। सः चिन्तितवान्– «नद्याः तीरे एकः मणिः पतितः अस्ति। सः मणिः अतीव उज्ज्वलः दृश्यते सूर्य–किरणेन।»

नदी–पारः m (зд., неудачно) Пересечение реки

इति चिन्तयित्वा सः शनैः–शनैः तस्य शिलाखण्डस्य समीपम् आगतवान्। सः शिलाखण्डं स्व–हस्ते गृहीतवान्। सः दृष्टवान् – एषः मणिः नास्ति, परन्तु उत्तमः शिलाखण्डः अस्ति। इति चिन्तयित्वा सः अतीव आनन्दितः अभवत्। अपि च तं शिलाखण्डं सः स्व–कार्यालायं नीतवान्।
भवन्तः जानान्ति, चर्मकारस्य समीपे एकः महान् शिलाखण्डः अथवा कश्चन अयः भवति। तस्य उपरि सः पादत्राणं स्थापयित्वा, तत्र कीलक–सन्धानं करोति।
तस्य समीपे एतादृशः शिलाखण्डः पूर्वं नासीत्। अतः तं शिलाखण्डं प्राप्य, सः चर्मकारः अतीव आनन्दितः अभवत्। तं शिलाखण्डं स्व–कार्यालाये स्थापयित्वा, तस्य शिरसि गमन–आगमनं कुर्वतां जनानां पादत्राणं स्थापयित्वा, सः कीलक–सन्धानं कृतवान्।
वार्ता समप्ता।

Добавить комментарий

Ваш адрес email не будет опубликован. Обязательные поля помечены *