एवं क्लेशानां तत्त्वम् अभिधाय, कर्म–आशयस्य तद्– अभिधातुम् आह–
॥ क्लेश–मूलः कर्म–आशयः दृष्ट–अदृष्ट–जन्म–वेदनीयः
«कर्म–आशयः» इति अनेन स्वरूपं तस्य अभिहितम्। अतः वासना–रूपाणि एव कर्माणि।
«क्लेश–मूलः» इति अनेन कारणम् अभिहितं यतः कर्मणां शुभ–अशुभानां क्लेशाः एव निमित्तम्।
«दृष्ट–अदृष्ट–जन्म–वेदनीयः» इति अनेन फलम् उक्तम्। अस्मिन् एव जन्मनि अनुभवनीयः दृष्ट–जन्म–वेदनीयः। जन्म–अन्तर–अनुभवनीयः अदृष्ट–जन्म–वेदनीयः।
तथा हि – कानिचित् पुण्यानि देवता–आराधन–आदीनि तीव्र–संवेगेन कृतानि इह एव जन्मनि जाति–आयुर्–भोग–लक्षणं फलं प्रयच्छन्ति। यथा नन्दीश्वरस्य भगवन्–महेश्वर–आराधन–बलात् इह एव जन्मनि जाति–आदयः विशिष्टाः प्रादुर्भूताः। एवम् अन्येषां विश्वामित्र–आदीनां तपः–प्रभावात् जाति–आयुषी। केषांचित् जातिः एव यथा तीव्र–संवेगेन दुष्ट–कर्म–कृतां नहुष–आदीनां जाति–अन्तर–आदि–परिणामः। उर्वश्याः च कार्तिकेयवने लता–रूपतया। एवं व्यस्त–समस्तत्वेन यथा–योग्यं योज्यम् इति॥
Previous Post: Одним абзацем
Next Post: Йога-анущасана 2:12