Раджа-мартанда 2:34 (вычитка)

इदानीं वितर्काणां स्वरूपं, 1[भेद–प्रकारं] 2[भेदं प्रकारं]аб, [कारणं,] फलं च क्रमेण आह–
॥ वितर्काः हिंसा–आदयः कृत–कारित–अनुमोदिताः लोभ-क्रोध-मोह-पूर्वकाः मृदु–मध्य–अधिमात्राः दुःख–अज्ञान–अनन्त–फलाः इति प्रतिपक्ष–भावनम्
एते पूर्व–उक्ताः [वितर्काः] हिंसा–आदयः प्रथमं त्रिधा भिद्यन्ते कृत–कारित–अनुमोदित–भेदेन {॰मोदिता भेदेन}е {–अनुमोदन}г*дж

Разночтение अनुमोदन॰ ошибочное как а) не согласующееся с текстом сутры, б) нарушающее однородность видов, выраженных причастиями.

तत्र स्वयं निष्पादिताः कृताः।
«कुरु कुरु» इति–प्रयोजक–व्यापारेण समुत्पादिताः कारिताः।
अन्येन क्रियमाणाः «साधु, [साधु]бв-б*» इति अङ्गीकृताः अनुमोदिताः।
एतत् च त्रैविध्यं {त्रविध्यं}в 1[परस्परं]ж 2[परस्पर–]व्यामोह[–निवारणाय]вде 2[–निराकरण–अवधारणाय]ж उच्यते। अन्यथा मन्दमतिः एवं मन्येत– «न मया, स्वयं हिंसा कृता, इति नास्ति मे दोषः» [इति]
एतेषां कारण–प्रतिपादनाय [आह–]бв «लोभ–क्रोध–मोह–पूर्वकाः» इति।
यद्यपि 1+[लोभः]аб*гдж 2+[लोभ–क्रोधौ]г*е 3[लोभः, क्रोधः]бв प्रथमं +1[निर्दिष्टः]гдж +2[निर्दिष्टौ]г*е, तथाऽपि सर्व–क्लेशानां {सर्वेक्ले॰}д मोहस्य अनात्मनि आत्म–अभिमान–लक्षणस्य निदानत्वात्। तस्मिन् सति स्व–पर–विभाग–पूर्वकत्वेन लोभ–क्रोध–आदीनाम् [सम्–]б* उद्भवात् मूलत्वम् अवसेयम्। मोह–पूर्विका सर्वा दोष–जातिः, इति अर्थः।
लोभः= तृष्णा। क्रोधः= कृति–अकृति–अविवेक–उन्मूलकः प्रज्वलन–आत्मकः चित्त–धर्मः।
प्रत्येकं कृत–आदि–भेदेन त्रिप्रकाराः अपि हिंसा–आदयः मोह–आदि–कारणत्वेन त्रिधा भिद्यन्ते।
1[एषाम्] 2[तेषाम्]абвг* एव पुनः अवस्था–भेदेन त्रैविध्यम् आह– «मृदु–मध्य–अधिमात्राः»। मृदवः= मन्दाः, न तीव्राः, न अपि मध्याः {मध्यमाः}а। मध्याः= न अपि मन्दाः, न अपि तीव्राः। अधिमात्राः= तीव्राः 1[न मध्याः, न अपि मन्दाः – इति [एवं]б* नव भेदाः]абв [इति]г*2[पाश्चात्त्याः नव–भेदाः]
इत्थं त्रैविध्ये सति सप्त–विंशतिशः [भवति]-авг*। मृदु–आदीनाम् अपि प्रत्येकं मृदु–मध्य–अधिमात्र–भेदात् त्रैविध्यं संभवति।
तद् यथा, योगं योज्यम्।
तद् यथा, मृदु–मृदुः, मृदु–मध्यः, मृदु–तीव्रः 1[इति] 2[इत्यादि]ав
एषां फलम् आह– दुःख–अज्ञान–अनन्त–फलाः [इति]бв
दुःखं= प्रतिकूलतया अवभासमानः राजसः चित्त–धर्मः।
अज्ञानं= मिथ्या–ज्ञानं संशय1[–विपर्यय]2[–विपर्यास]б–रूपम्।
ते दुःख–अज्ञाने अनन्तम् (=अपरिच्छिन्नं) फलं येषां, ते तथा–उक्ताः।
इत्थं तेषां स्वरूप[–कारण]–आदि–भेदेन ज्ञातानां प्रतिपक्ष–भावनया योगिना परिहारः कर्तव्यः, इति उपदिष्टं भवति॥

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *