РМ 4:10 (в) безначальность «узелков на память»

– भवतु आनन्तर्यं, कार्य–कारण–भावः च वासनानाम्, यदा तु प्रथमम् एव अनुभवः प्रवर्तते, तदा किं वासना–निमित्तः उत निर्निमित्तः?
– इति शङ्कां व्यपनेतुम् आह–
॥ तासाम् अनादित्वं च, आशिषः नित्यत्वात्
तासां वासनानाम् अनादित्वम्। न विद्यते आदिः यस्य, तस्य भावः तत्त्वम्। तासाम् आदिः नास्ति, इति अर्थः।
– कुत?
[इति [अतः आह–]ге]гдеж
– आशिषः नित्यत्वात्। येयम् आशीः महामोह–रूपा– «सदा एव सुख–साधनानि मे भूयासुः, मा कदाचन तैः मे वियोगः 1[भूयात्]в 2[भूत्]гдеж» इति यः संकल्प–विशेषः, वासनानां कारणं, तस्य नित्यत्वात् 1[अनादित्वम्]вг*ж 2[अनादित्वात्]где, इति अर्थः।
एतत् उक्तं भवति–
कारणस्य संनिहितत्वात् अनुभव–संस्कार–आदीनां कार्याणां प्रवृत्तिः केन वार्यते। अनुभव–संस्कार[–आदि]вге-г*–अनुविद्धं {॰बिद्धं}ж संकोच–विकाश–धर्मि चित्तं तद्–तद्–अभिव्यञ्जक–[विपाक–]-г*деलाभात् तद्–तद्–फल–रूपतया 1[परिणमत्]вж 2[परिणमते]где, इति अर्थः॥

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *