РМ 4:12 (в) в гостях у будущего

ननु प्रतिक्षणं चित्तस्य नश्वर1[त्व–] 2[त्वात् भेद–]еउपलब्धेः वासनानां, तद्–फलानां च कार्य–कारण–भावेन युगपत् अभावित्वात् भेदे कथम् एकत्वम्?
– इति आशङ्क्य, एकत्व–समर्थनाय आह–
॥ अतीत–आनागतं स्वरूपतः अस्ति अध्व–भेदात् धर्माणाम्
इह अत्यन्तम् असतां भावानाम् उत्पत्तिः न युक्तिमती तेषां सत्त्व–संबन्ध–अयोगात्। न हि शशविषाण–आदीनां क्वचिदपि सत्त्व–संबन्धः दृष्टः। निरुपाख्ये च कार्ये किम् उद्दिश्य कारणानि प्रवर्तेरन्। न हि [असन्तं] विषयम् अनालोच्य {आलो॰}ж कश्चित् प्रवर्तते। सताम् अपि विरोधात् न अभाव–संबन्धः अस्ति। यत् [स्वरूपं]ж [स्वरूपेण]где लब्ध–सत्ताकं {॰सता}д, तत् कथं निरुपाख्यताम्, अभाव–रूपतां वा भजते न विरुद्धं रूपं स्वीकरोति, इति अर्थः। तस्मात् सताम् 1[अभाव–] 2[नाश–]дअसंभवात्, {॰वसं॰}е असतां च उत्पत्ति–असंभवात् {॰त्पत्यसं॰}д तैः तैः धर्मैः विपरिणममानः धर्मी सदा [एव]де 1[एकरूपः एव]ж 2[एकरूपतया]где अवतिष्ठते।
धर्माः तु [तत्र एव]е [त्रि–] 1[अध्वकत्वेन] 2[अधिकत्वेन]где त्रै–कालिकत्वेन [तत्र]-где व्यवस्थिताः स्वस्मिन् स्वस्मिन् अध्वनि व्यवस्थिताः न स्वरूपं त्यजन्ति {त्यज्यन्ति}е। वर्तमाने अध्वनि व्यवस्थिताः केवलं भोग्यतां भजन्ते। तस्मात् धर्माणाम् एव अतीत–अनागत–आदि[–अध्व][–भेदात्]дж 2[–भेदः]ге तेन एव रूपेण कार्य–कारण–भावः अस्मिन् दर्शने 1[प्रतिपद्यते] 2[प्रतिपाद्यते]де। तस्मात् अपवर्ग–पर्यन्तम् एकम् एव चित्तं धर्मितया अनुवर्तमानं न निह्नोतुं पार्यते॥

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *