– यदि एते त्रयः गुणाः सर्वत्र मूल–कारणं, कथम् एकः धर्मी इति व्यपदेशः?
– इति आशङ्क्य, आह–
॥ परिणाम–एकत्वात् वस्तु–तत्त्वम्
यद्यपि त्रयः गुणाः, तथाऽपि तेषाम् अङ्ग–अङ्गि–भाव–गमन–लक्षणः यः परिणामः– क्वचित् सत्त्वम् अङ्गि, क्वचित् रजः, क्वचित् च तमः – इति–एवं–रूपः तस्य एकत्वात् वस्तुनः तत्त्वम् एकम् उच्यते। यथा, «इयं पृथिवी, अयं वायुः» इति–[एवम्]-е–आदि॥