दयालुः सिद्धार्थः Жалостливый Сиддхартха

दयालुः सिद्धार्थः

सिद्धार्थः शुद्धोदनस्य पुत्रः। तस्य मातुः नाम मायावती। एकदा सिद्धार्थः उद्याने संचरति स्म। तदा सः बाणेन विद्धम् एकं हंसम् अपश्यत्। हंसः वेदनया पीडितः अभवत्। तस्य वेदनां दृष्ट्वा, सिद्धार्थः व्याकुलः समजायत। सः हंसस्य समीपम् अगच्छत्। हंसस्य शरीरे सः व्रणम् अपश्यत्। व्रणात् रुधिरम् अस्रवत्।
सिद्धार्थः पीडितं, भय–भीतं च हंसं वक्षसि अधारयत्। सः हंसस्य शरीरात् बाणम् अपाकरोत्। हंसः शनैः शनैः स्वस्थः अभूत्।
अत्र अन्तरे देवदत्तः तत्र अगच्छत्। सः सिद्धार्थम् अवदत्–
– सिद्धार्थ! एषः मम हंसः। अहं तं प्रति बाणम् अक्षिपम्। तेन सः भूमौ अपतत्। अतः सः मदीयः अस्ति।
एवं देवदत्तः सिद्धार्थेन सह कलहम् अकरोत्।
ततः उभौ राज–सभां प्राविशताम्। देवदत्तः न्याय–अधीशम् अभाषत–
– सिद्धार्थः मदीयं हंसम् अपाहरत्।
सिद्धार्थः च अकथयत्–
– देवदत्तः हंसं बाणेन अविध्यत्। सः तस्य प्राण–हरणे प्रायतत। यदि अहं देवदत्ताय हंसं यच्छामि, तर्हि सः तं हनिष्यति।
न्याय–अधीशः अपि एतत् सर्वं श्रुत्वा, अभाषत–
– प्राण–आघातात् प्राण–रक्षणं वरम्। सिद्धार्थः हंसस्य प्राण–रक्षकः। अतः सः एव हंसस्य स्वामी भवितुम् अर्हति।
सर्वे जनाः, निर्णयं श्रुत्वा, अमोदन्त।

Текст повышенной сложности. Придётся побороться с многообразием глагольных форм.

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *