स्त्री–स्वभाव–कथनम् (МБх 13.38)

Сделаю три самостоятельных текста: вычитанный санскрит, мой перевод, а потом небольшое обсуждение.
В этот раз для упрощения чтения я каждую строфу перевёл в синтаксически правильную форму (т.н. अन्वयः). Для тех, кто желает уже пробовать читать поэмы, это отличное подспорье. В конце текста — увесистый вокабулярий. Остальное при необходимости можно посмотреть в прочих словарях (к сожалению, всю лексику отрывка в учебный словарик я еще не завёл).
Текст сложноватый, но в крайнем случае я всегда на связи — можно спросить.

001युधिष्ठिरः उवाच–
स्त्रीणां स्वभावम् इच्छामि श्रोतुं, भरतसत्तम।
स्त्रियः हि मूलं दोषाणां लघु–चित्ताः, पितामह॥

युधिष्ठिरः उवाच–
– [हे] भरतसत्तम, स्त्रीणां स्वभावम् श्रोतुं इच्छामि। स्त्रियः हि लघु–चित्ताः दोषाणां मूलं, [हे] पितामह॥

002भीष्मः उवाच–
अत्र अपि उदाहरन्ति इमम् इतिहासं पुरातनम्।
नारदस्य च संवादं पुंश्चल्या पञ्चचूडया॥

भीष्मः उवाच–
– अत्र अपि इमम् इतिहासं पुरातनम् उदाहरन्ति– नारदस्य च पुंश्चल्या पञ्चचूडया संवादम्।

003लोकान् अनुचरन् धीमान् देवर्षिः नारदः पुरा।
ददर्श अप्सरसं ब्राह्मीं पञ्चचूडाम् अनिन्दिताम्॥

लोकान् अनुचरन्, धीमान् देवर्षिः नारदः पुरा ब्राह्मीं अनिन्दिताम् अप्सरसं पञ्चचूडाम् ददर्श।

004तां दृष्ट्वा चारु–सर्व–अङ्गीं पप्रच्छ अप्सरसं मुनिः–
संशयः हृदि मे कश्चित्। तत् मे ब्रूहि, सुमध्यमे॥

तां दृष्ट्वा, मुनिः चारु–सर्व–अङ्गीं अप्सरसं पप्रच्छ–
– कश्चित् संशयः हृदि मे [अस्ति]। तत् मे ब्रूहि, [हे] सुमध्यमे।

005एवम् उक्ता तु सा विप्रं प्रत्युवाच अथ नारदम्–
विषये सति, वक्ष्यामि समर्थां मन्यसे च माम्॥

सा तु, एवम् उक्ता, अथ नारदम् विप्रं प्रत्युवाच–
– विषये सति, वक्ष्यामि समर्थां मन्यसे च माम्।

006नारदः उवाच–
न त्वाम् अविषये, भद्रे, नियोक्ष्यामि कथंचन।
स्त्रीणां स्वभावम् इच्छामि त्वत्तः श्रोतुम्, वरानने॥

नारदः उवाच–
– [हे] भद्रे, न कथंचन त्वाम् अविषये नियोक्ष्यामि। स्त्रीणां स्वभावम् त्वत्तः श्रोतुम् इच्छामि, [हे] वरानने।

007भीष्मः उवाच–
एतत् श्रुत्वा वचस् तस्य देवर्षेः अप्सरा उत्तमा।
प्रत्युवाच– न शक्ष्यामि, स्त्री सती, निन्दितुं स्त्रियः॥

भीष्मः उवाच–
एतत् वचस् तस्य देवर्षेः श्रुत्वा, अप्सरा उत्तमा प्रत्युवाच– «स्त्री सती, न स्त्रियः निन्दितुं शक्ष्यामि॥

008विदिताः ते स्त्रियः याः यादृशाः च स्वभावतः।
न माम् अर्हसि, देवर्षे, नियोक्तुं प्रश्ने ईदृशे॥

[हे] देवर्षे, याः स्त्रियः, यादृशाः च स्वभावतः, [ताः] ते विदिताः। न प्रश्ने ईदृशे माम् नियोक्तुं अर्हसि॥

009ताम् उवाच सः देवर्षिः– सत्यं वद, सुमध्यमे।
मृषा–वादे भवेत् दोषः, सत्ये दोषः न विद्यते॥

सः देवर्षिः ताम् उवाच–
– सत्यं वद, सुमध्यमे। मृषा–वादे दोषः भवेत्, सत्ये दोषः न विद्यते।

010इति उक्ता, सा कृतमतिः अभवत् चारु–हासिनी।
स्त्री–दोषान् शाश्वतान् सत्यान् भाषितुं संप्रचक्रमे॥

इति उक्ता, सा चारु–हासिनी कृतमतिः अभवत्, शाश्वतान् सत्यान् स्त्री–दोषान् भाषितुं संप्रचक्रमे।

011पञ्चचूडा उवाच–
कुलीनाः, रूपवत्यः च, नाथवत्यः च योषितः।
मर्यादासु न तिष्ठन्ति – सः दोषः स्त्रीषु, नारद॥

पञ्चचूडा उवाच–
– कुलीनाः, रूपवत्यः च, नाथवत्यः च योषितः मर्यादासु न तिष्ठन्ति – सः दोषः स्त्रीषु, नारद॥

012न स्त्रीभ्यः किंचित् अन्यत् वै पापीयस्तरम् अस्ति वै।
स्त्रियः हि मूलं दोषाणां तथा त्वम् अपि वेत्थ ह॥

न वै किंचित् स्त्रीभ्यः अन्यत् वै पापीयस्तरम् अस्ति। स्त्रियः हि दोषाणां मूलं, तथा ह त्वम् अपि वेत्थ।

013समाज्ञातान्, ऋद्धिमतः, प्रतिरूपान्, वशे स्थितान्।
पतीन् अन्तरम् आसाद्य न अलं नार्यः प्रतीक्षितुम्॥

समाज्ञातान्, प्रतिरूपान्, ऋद्धिमतः वशे स्थितान् पतीन् आसाद्य, न नार्यः अन्तरम् अलं प्रतीक्षितुम्॥

014असद्–धर्मः तु अयं स्त्रीणाम् अस्माकं भवति, प्रभो।
यद् वै पापीयसः नरान्, लज्जां त्यक्त्वा, भजामहे॥

अयं तु असद्–धर्मः अस्माकं स्त्रीणाम् भवति, प्रभो, यद् वै लज्जां त्यक्त्वा, पापीयसः नरान् भजामहे॥

015स्त्रियं हि यः प्रार्थयते, संनिकर्षं च गच्छति।
ईषत् च कुरुते सेवां, तम् एव इच्छन्ति योषितः॥

यः हि स्त्रियं प्रार्थयते, संनिकर्षं च गच्छति, ईषत् सेवां च कुरुते, तम् एव योषितः इच्छन्ति॥

016अनर्थित्वात् मनुष्याणां, भयात् परिजनस्य च।
मर्यादायाम् अमर्यादाः स्त्रियः तिष्ठन्ति भर्तृषु॥

मनुष्याणां अनर्थित्वात्, परिजनस्य च भयात् अमर्यादाः स्त्रियः मर्यादायाम् भर्तृषु तिष्ठन्ति॥

017न आसां कश्चित् अगम्यः अस्ति, न आसां वयसि संस्थितिः।
विरूपं, रूपवन्तं वा पुमान् इति एव भुञ्जते॥

न आसां कश्चित् अगम्यः अस्ति, न आसां वयसि संस्थितिः [भवति]। विरूपं, रूपवन्तं वा पुमान् इति एव भुञ्जते (6√भुज्)॥

018न भयात्, न अपि अनुक्रोशात् न अर्थ–हेतोः कथंचन।
न ज्ञाति–कुल–संबन्धात् स्त्रियः तिष्ठन्ति भर्तृषु॥

न कथंचन भयात्, न अपि अनुक्रोशात्, न अर्थ–हेतोः, न ज्ञाति–कुल–संबन्धात् स्त्रियः तिष्ठन्ति भर्तृषु॥

019यौवने वर्तमानानां मृष्ट–आभरण–वाससाम्।
नारीणां स्वैर–वृत्तीनां स्पृहयन्ति कुल–स्त्रियः॥

यौवने वर्तमानानां मृष्ट–आभरण–वाससाम्, своими स्वैर–वृत्तानां नारीणां कुल–स्त्रियः स्पृहयन्ति॥

020याः च शश्वत् बहुमताः रक्ष्यन्ते दयिताः स्त्रियः।
अपि ताः संप्रसज्जन्ते कुब्ज–अन्ध–जड–वामनैः॥

याः च शश्वत् बहुमताः रक्ष्यन्ते दयिताः स्त्रियः, ताः अपि संप्रसज्जन्ते (सम्+प्र+1√सञ्ज्) कुब्ज–अन्ध–जड–वामनैः॥

021पङ्गुषु अपि च, देवर्षे, ये च अन्ये कुत्सिताः नराः।
स्त्रीणाम् अगम्यः लोके अस्मिन् न अस्ति कश्चित्, महामुने॥

पङ्गुषु अपि च, देवर्षे। ये च अन्ये कुत्सिताः नराः, न लोके अस्मिन् स्त्रीणाम् कश्चित् अगम्यः अस्ति, महामुने॥

022यदि पुंसां गतिः, ब्रह्म, कथंचित् न उपपद्यते।
अपि अन्योन्यं प्रवर्तन्ते, न हि तिष्ठन्ति भर्तृषु॥

यदि पुंसां गतिः, ब्रह्म, न कथंचित् उपपद्यते, अपि अन्योन्यं प्रवर्तन्ते, न हि तिष्ठन्ति भर्तृषु॥

023अलाभात् पुरुषाणां हि भयात् परिजनस्य च।
वध–बन्ध–भयात् च अपि स्वयं गुप्ताः भवन्ति ताः॥

पुरुषाणां हि अलाभात्, परिजनस्य भयात् च, वध–बन्ध–भयात् च अपि ताः स्वयं गुप्ताः भवन्ति।

024चल–स्वभावाः, दुःसेव्याः, दुर्ग्राह्याः, भावतः तथा।
प्राज्ञस्य पुरुषस्य इह यथा वाचः, तथा स्त्रियः॥

चल–स्वभावाः, दुःसेव्याः, तथा दुर्ग्राह्याः भावतः। यथा इह प्राज्ञस्य पुरुषस्य वाचः, तथा स्त्रियः।

025न अग्निः तृप्यति काष्ठानां, न अपगानां महोदधिः।
न अन्तकः सर्व–भूतानां, न पुंसां वाम–लोचनाः॥

न अग्निः काष्ठानां तृप्यति, न महोदधिः अपगानां, न सर्व–भूतानां अन्तकः, न पुंसां वाम–लोचनाः॥

026इदम् अन्यत् च, देवर्षे, रहस्यं सर्व–योषिताम्।
दृष्ट्वा एव पुरुषं हृद्यं, योनिः प्रक्लिद्यते स्त्रियः॥

इदम् च अन्यत्, देवर्षे, सर्व–योषिताम् रहस्यं– हृद्यं पुरुषं दृष्ट्वा एव, स्त्रियः योनिः प्रक्लिद्यते।

027कामानाम् अपि दातारं, कर्तारं मनसां प्रियम्।
रक्षितारं न मृष्यन्ति भर्तारं परमं स्त्रियः॥

कामानाम् अपि दातारं (दातृ), कर्तारं (कर्तृ) मनसां प्रियं, रक्षितारं (रक्षितृ), परमं भर्तारं (भार्तृ) न स्त्रियः मृष्यन्ति॥

028न काम–भोगान् बहुलान् न अलङ्कार–अर्थ–संचयान्।
तथा एव बहु मन्यन्ते यथा रत्याम् अनुग्रहम्॥

न काम–भोगान् बहुलान्, न अलङ्कार–अर्थ–संचयान् तथा एव बहु मन्यन्ते, यथा रत्याम् अनुग्रहम्॥

029अन्तकः, पवनः, मृत्युः, पातालं, वडवामुखम्।
क्षुर–धारा, विषं, सर्पः, वह्निः – इति एकतः स्त्रियः॥

अन्तकः, पवनः, मृत्युः, पातालं, वडवामुखम्, क्षुर–धारा, विषं, सर्पः, वह्निः – इति एकतः स्त्रियः॥

030यतः च भूतानि महान्ति पञ्च,
यतः च लोकाः विहिताः विधात्रा।
यतः पुमांसः, प्रमदाः च निर्मिताः
तदा एव दोषाः प्रमदासु, नारद॥

यतः च पञ्च महान्ति भूतानि, यतः च लोकाः, यतः पुमांसः, प्रमदाः च विधात्रा (विधातृ) विहिताः, तदा एव दोषाः प्रमदासु निर्मिताः, नारद॥

 

Вокабулярий
Синонимичный ряд «Женщина»: स्त्री। योषित्। नारी। प्रमदा।
अगम्यः – (причастие долженствования) Неподходящий (в том же переносном значении, что и русское, т.е. Неприемлемый)
अनर्थित्वम् – довольно сложное для перевода слово. अर्थिन् можно взять как Обожатель Ухажёр. Тогда अनर्थिन् – отсутствие Ухажёра, а отвлеченное अनर्थित्वात् – как придаточное «Ввиду того, что отсутствуют ухажёры (среди мужчин)»
अनिन्दिता – Безупречная
अनुक्रोशः – Ласка Сострадание
अन्तकः – Бог смерти Йāма (025) или Конец Кончина (029)
अपगः – букв. Нисходящий Уходящий. Но в контексте речь идёт о втекающих в Море или Океан реках.
अप्सरा – Нимфа Фея Небесная танцовщица (класс небожителей индуистского пантеона)
अविषयः – Непотребное Неприемлемое
कृतमतिः – (бахуврӣхи) букв. «с принятым решением»
कुब्जः – Горбун
कुत्सितः – Низменный Подлый
क्षुर–धारा – Лезвие бритвы
चल–स्वभावा – (бахуврӣхи) Распутного нрава (चल букв. означает Непостоянный)
चारु–हासिनी – Обворожительно улыбающаяся (или усмехающаяся)
जडः – (здесь) Тупой Глупый
ज्ञातिः – Знать (почти полное созвучие)
त्वत्तः – форматив тасил взят после местоименной основы второго лица युष्मद् в значении исходного падежа: От тебя
दोषः – (здесь) Грех Порок
पङ्गुः – Хромой или вовсе Неходячий
परिजनः – Окружение из близких людей
पञ्चचूडा – Пан̃чачӯд̣ā (имя собств. «букв. имеющая [на голове] пять косичек/хвостиков)
पातालम् – (собирательно) низшие уровни ада
पुंश्चली – Кокетка (букв. «таскающаяся за мужчинами»)
प्रवृत् – в пикантной фразе अन्योन्यम् प्रवर्तन्ते означает «Соблазняют одна другую».
प्रक्लिद् – Промокать (в контексте означает женскую физиологическую реакцию на физически притягательного мужчину)
प्राज्ञः – Интеллигент. Фраза प्राज्ञस्य पुरुषस्य यथा वाचः подразумевает стёб: умный так глубокомысленно выразится, что простому смертному ни уловить, ни понять не возможно. Женщину тоже ни уловить, ни понять не возможно. В том числе ей самой.
बन्धः – в составе वध–बन्ध–भयात् скорее всего означает Тюремное заключение
बहुमता – Ценящаяся высоко
भज् – (Пред)почитать Боготворить
मर्यादा – Предел (здесь: предел морально допустимого, нравственные границы)
मृष् – (здесь контекстно) Терпеть Прощать Извинять. Т.е. женщина не способна терпеть, выносить даже того, кто её содержит, обеспечивает, исполняет прихоти, защищает.
मृषा–वादः — Ложь
योनिः – Вульва
रतिः – Плотские утехи Физическая близость Секс
लज्जा – Стыд
लघुचित्ता – Легкомысленная Несерьезная Слабоумная
विधातृ – Создатель Творец
विहितः – Созданный
वडवामुखम् – мутное слово. В словаре смотреть через альтернативное написание वडबामुखम्। Если букв., то वडबा – кобылица, मुखम् – морда, т.е. вместе «Кобылья морда». Никакого смысла я не обнаружил. वडबा также предлагается читать как Куртизанка. Тогда вместе получаем «Лицо проститутки». В общем, долго думая, я взял обтекаемо «врата разврата».
वरानना – Миловидная (идиоматическое бахуврӣхи)
वामनः – Карлик (самый известный Вāмана – воплощение Вишн̣у)
विप्रः – (здесь) Поэт Сказитель (можно взять Мудрец Учёный; Нāрада — очень разносторонний персонаж)
विषयः – (здесь) Предмет Тема либо нечто Стоящее (ср. अविषयः)
शश्वत् – (наречие) Непрестанно
सेवा – (здесь) Ухаживание
स्पृह् – (здесь) Завидовать
स्वभावः – Природа Характер
स्वैर–वृत्ती – Фривольная Независимая Ведущая себя как заблагорассудится (поскольку ещё не замужняя)

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *