Кайвалья-упанишада

Авторская редакция текста. На основе массива исследованных рукописей внесено 11 правок против изданий 1872 и 1948 годов.
Текст написан лёгким незатейливым языком и может быть рекомендован для чтения на ранних стадиях изучения санскрита. Особенно в предлагаемой морфонологической записи.

अथ आश्वलायनः भगवन्तम् परमेष्ठिनम् उपसमेत्य उवाच–
1अधीहि भगवन्, ब्रह्म–विद्यां वरिष्ठाम्
सदा सद्भिः सेव्यमानां निगूढाम्।
यया अचिरात् सर्व–पापं व्यपोह्य
परात् परं पुरुषं याति विद्वान्॥
2तस्मै सः ह उवाच पितामहः च
श्रद्धा–भक्ति–ध्यान–योगात् अवैहि।
न कर्मणा, न प्रजया, धनेन,
त्यागेन एकेन अमृतत्वम् आनशुः॥
3परेण नाकं निहितं गुहायाम्
विभ्राजते यत् यतयः विशन्ति।
वेदान्त–विज्ञान–सुनिश्चित–अर्थाः
संन्यास–योगात् यतयः शुद्ध–सत्त्वाः॥
4ते ब्रह्म–लोकेषु परान्त–काले
परामृतात् परिमुच्यन्ति सर्वे।
विविक्त–देशे च सुख–आसन–स्थः
शुचिः सम–ग्रीव–शिरः–शरीरः॥
5अन्त्य–आश्रम–स्थः सकलेन्द्रियाणि
निरुध्य भक्त्या स्व–गुरुं प्रणम्य।
हृत्–पुण्डरीकं विरजं विशुद्धम्
विचिन्त्य मध्ये विशदं विशोकम्॥
6अचिन्त्यम्, अव्यक्तम्, अनन्त–रूपम्,
शिवं, प्रशान्तम्, अमृतं ब्रह्म–योनिम्।
तम् आदि–मध्य–अन्त–विहीनम्, एकम्
विभुं, चिदानन्दम्, अरूपम् अद्भुतम्॥
7उमा–सहायं, परमेश्वरं, प्रभुम्
त्रिलोचनं, नीलकण्ठं, प्रशान्तम्।
ध्यात्वा मुनिः गच्छति भूत–योनिम्
समस्त–साक्षिं तमसः परस्तात्॥
8सः ब्रह्मा, सः शिवः, सः इन्द्रः
सः अक्षरः परमः स्वराट्।
सः एव विष्णुः, सः प्राणः,
सः कालः, अग्निः, सः चन्द्रमाः॥
9सः एव सर्वं, यत् भूतम्,
यत् च भव्यं, सनातनम्।
ज्ञात्वा तं, मृत्युम् अत्येति;
न अन्यः पन्था विमुक्तये॥
10सर्व–भूत–स्थम् आत्मानम्
सर्व–भूतानि च आत्मनि।
संपश्यन् ब्रह्म परमम्
याति, न अन्येन हेतुना॥
11आत्मानम् अरणिं कृत्वा,
प्रणवं च उत्तर–अरणिम्।
ज्ञान–निर्मथन–अभ्यासात्
पाशं दहति पण्डितः॥
12सः एव माया–परिमोहित–आत्मा
शरीरम् आस्थाय, करोति सर्वम्।
स्त्रि–अन्न–पान–आदि–विचित्र–भोगैः
सः एव जाग्रत्–परितृप्तिम् एति॥
13स्वप्ने सः जीवः सुख–दुःख–भोक्ता
स्व–मायया कल्पित–विश्व–लोके।
सुषुप्ति–काले सकले विलीने
तमो–अभिभूतः सुख–रूपम् एति॥
14पुनः च जन्म–अन्तर–कर्म–योगात्
सः एव जीवः स्वपिति प्रबुद्धः।
पुर–त्रये क्रीडति यः च जीवः
ततः तु जातं सकलं विचित्रम्।
आधारम् आनन्दम् अखण्ड–बोधम्
यस्मिन् लयं याति पुर–त्रयं च॥
15एतस्मात् जायते प्राणः,
मनः, सर्वेन्द्रियाणि च।
खं, वायुः, ज्योतिः, आपः च
पृथ्वी विश्वस्य धारिणी॥
16यत् परं ब्रह्म सर्व–आत्मा
विश्वस्य आयतनं महत्।
सूक्ष्मात् सूक्ष्मतरं, नित्यम्
तत् त्वम् एव, त्वम् एव तत्॥
17«जाग्रत्–स्वप्न–सुषुप्ति–आदि
प्रपञ्चं यत् प्रकाशते।
तत् ब्रह्म अहम्» इति ज्ञात्वा,
सर्व–बन्धैः प्रमुच्यते॥
18त्रिषु धामसु यत् भोग्यम्,
भोक्ता, भोगः च यत् भवेत्।
तेभ्यः विलक्षणः साक्षी
चिन्मात्रः अहं सदाशिवः॥
19मयि एव सकलं जातम्
मयि सर्वं प्रतिष्ठितम्।
मयि सर्वं लयं याति
तत् ब्रह्म अद्वयम् अस्मि अहम्॥
20अणोः अणीयान् अहम् एव तद्वत्
महान् अहं, विश्वम् अहं विचित्रम्।
पुरातनः अहं, पुरुषः अहम्, ईशः
हिरण्मयः अहं, शिव–रूपम् अस्मि॥
21अपाणि–पादः अहम् अचिन्त्य–शक्तिः
पश्यामि अचक्षुः च शृणोमि अकर्णः।
अहं विजानामि विविक्त–रूपः
न च अस्ति वेत्ता मम चित् सदा अहम्॥
22वेदैः अनेकैः अहम् एव वेद्यः
वेदान्त–कृत् वेदवित् एव च अहम्।
न पुण्य–पापे मम, न अस्ति नाशः
न जन्म, देह–इन्द्रिय–बुद्धिः अस्ति॥
23न भूमिः, आपः न च वह्निः अस्ति,
न च अनिलः मे अस्ति, न च अम्बरं च।
एवं विदित्वा परमात्म–रूपं
गुहा–आशयं, निष्कलम्, अद्वितीयम्॥
समस्त–साक्षिं, सद्–असद्–विहीनम्
प्रयाति शुद्धं परमात्म–रूपम्॥
यः शतरुद्रीयम् अधीते, सः अग्नि–पूतः भवति, सः वायु–पूतः भवति, सः आत्म–पूतः भवति, सः सुरा–पानात् पूतः भवति, सः ब्रह्महत्यायाः पूतः भवति, सः सुवर्ण–स्तेयात् पूतः भवति, सः कृत्य–अकृत्यात् पूतः भवति। तस्मात् अविमुक्तम् आश्रितः भवति। अत्याश्रमी सर्वदा सकृत् वा जपेत्॥
24अनेन ज्ञानम् आप्नोति
संसार–अर्णव–नाशनम्।
तस्मात् एवं विदित्वा एनम्
कैवल्यं फलम् अश्नुते
कैवल्यं फलम् अश्नुते॥

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *