व्या॰ भा॰ २.३४

॥२.३४॥ तत्र हिंसा तावत् ॥ कृता कारिताऽनुमोदितेति त्रिधा । कैका पुनस्त्रिधा लोभेन मांसचर्मार्थेन, क्रोधेनापकृतमनेनेति, मोहेन धर्मो मे भविष्यतीति । लोभक्रोधमोहाः पुनस्त्रिविधा मृदुमध्याधिमात्रा इति । वं सप्तविंशतिर्भेदा भवन्ति हिंसायाः । मृदुमध्याधिमात्राः पुनस्त्रिविधाः ॥ मृदुमृदुर्मध्यमृदुस्तीव्रमृदुरिति । तथा मृदुमध्यो मध्यमध्यस्तीव्रमध्य इति । तथा मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति वमेकाशीतिभेदा हिंसा भवति । सा पुनर्नियमविकल्पसमुच्चयभेदादसंख्येया, प्राणभृद्भेदस्यापरिसंख्येयत्वादिति । वमनृतादिष्वपि योज्यम् । ते खल्वमी वितर्का दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् । दुःखमज्ञानं चानन्तं फलं येषामिति प्रतिपक्षभावनम् । तथा च हिंसकस्तावत्प्रथमं वध्यस्य वीर्यमाक्षिपति । ततश्च शस्त्रादिनिपातेन दुःखयति । ततो जीवितादपि मोचयति । ततो वीर्याक्षेपादस्य चेतनाचेतनमुपकरणं क्षीणावीर्यं भवति । दुःखोत्पादान्नरकतिर्यक्मनुष्यादिषु दुःखमनुभवति । जीवितव्यपरोपणात्प्रतिक्षणं च जीवितात्यये वर्तमानो मरणमिच्छन्नापि दुःखविपाकस्य नियतविपाकवेदनीयत्वात्कथंचिदेवोच्छ्वसिति । यदि च कथंचित्पुण्यावापगता हिंसा भवेत्तत्र सुखप्राप्तौ भवेदल्पायुरिति । वमनृतादिष्वपि योज्यं यथासंभवम् । वं वितर्काणां चामुमेवानुगतं विपाकमनिष्टं भावयन्न वितर्केषु मनः प्रणिदधीत ।

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *