व्या॰ भा॰ ४.१५

॥४.१५॥ बहिचित्तालम्बनीभूतमेकं वस्तु साधारणम् । तत्खलु नैकचित्तपरिकल्पितं नाप्यनेकचित्तपरिकल्पितं किंतु स्वप्रतिष्ठम् । कथम् । वस्तुसाम्ये चित्तभेदात् । धर्मापेक्षं चित्तस्य वस्तुसाम्येऽपि सुखज्ञानं भवत्यधर्मापेक्षं तत व दुःखज्ञानमविद्यापेक्षं तत व मूढज्ञानं सम्यग्दर्शनापेक्षं तत व माध्यस्थ्यज्ञानमिति । कस्य तच्चित्तेन परिकल्पितम् । न चान्यचित्तपरिकल्पितेनार्थेनान्यस्य चित्तोपरागो युक्तः । तस्माद्वस्तुज्ञानयोर्ग्राह्यग्रहणभेदभिन्नयोर्विर्भक्तः पन्थाः । नानयोः संकरगन्धोऽप्यस्तीति । सांख्यपक्षे पुनर्वस्तु त्रिगुणं चलं च गुणवृत्तमिति धर्मादिनिमित्तापेक्षं चित्तैरभिसंबध्यते । निमित्तानुरूपस्य च प्रत्ययस्योत्पद्यमानस्य तेन तेनाऽऽत्मना हेतुर्भवति केचिदाहुः ॥ ज्ञानसहभूरेवार्थो भोग्यत्वात्सुखादिवदिति । त तया द्वारा साधारणत्वं बाधमानाः पूर्वोत्तरक्षणेषु वस्तुरूपमेवापह्नुवते ।

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *