व्या॰ भा॰ ४.३०

॥४.३०॥ तल्लाभादविद्यादयः क्लेशाः समूलकाषं कषिता भवन्ति । कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति । क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान्विमुक्तो भवति । कस्मात्, यस्माद्विपर्ययो भवस्य कारणम् । न हि क्षीणक्लेशविपर्ययः कश्चित्केनचित्क्वचिज्जातो दृश्यत इति ।

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *