व्या॰ भा॰ ४.३३

॥४.३३॥ क्षणानन्तर्यात्मा परिणामस्यापरान्तेनावसानेन गृह्यते क्रमः । न ह्यननुभूतक्रमक्षणा पुराणता वस्त्रस्यान्ते भवति । नित्येषु च क्रमो दृष्टः । द्वयी चेयं नित्यता कूटस्थनित्यता परिणामिनित्यता च । तत्र कूटस्थनित्यता पुरुषस्य । परिणामिनित्यता गुणानाम् । यस्मिन्परिणम्यमाने तत्त्वं न विहन्यते तन्नित्यम् । उभयस्य च तत्त्वानभिघातान्नित्यत्वम् । तत्र गुणधर्मेषु बुद्ध्यादिषु परिणामापरान्तनिर्ग्राह्यः क्रमो लब्धपर्यवसानो नित्येषु धर्मिषु गुणेष्वलब्धपर्यवसानः । कूटस्थनित्येषु स्वरूपमात्रप्रतिष्ठेषु मुक्तपुरुषेषु स्वरूपास्तिता क्रमेणैवानुभूयत इति तत्राप्यलब्धपर्यवसानः शब्दपृष्ठेनास्तिक्रियामुपादाय कल्पित इति । अथास्य संसारस्य स्थित्या गत्या च गुणेषु वर्तमानस्यास्ति क्रमसमाप्तिर्न वेति । अवचनीयमेतत् । कथम् । अस्ति प्रश्न कान्तवचनीयः सर्वो जातो मरिष्यति मृत्वा जनिष्यत इति । ओ३म् भो इति । अथ सर्वो जातो मरिष्यतीति मृत्वा जनिष्यत इति । विभज्यवचनीयमेतत् । प्रत्युदितख्यातिः क्षीणतृष्णाः कुशलो न जनिष्यत इतरस्तु जनिष्यते । तथा मनुष्यजातिः श्रेयसी न वा श्रेयसीत्येवं परिपृष्टे विभज्य वचनीयः प्रश्नः पशूनधिकृत्य श्रेयसी देवानृषींश्चाधिकृत्य नेति । अयं त्वचनीयः प्रश्नः संसारोऽयमन्तवानथानन्त इति । कुशलस्याति संसारक्रमपरिसमाप्तिर्नेतरस्येति अन्यतरावधारणे दोषः । तस्माद्व्याकरणीय वायं प्रश्न इति । गुणाधिकारक्रमसमाप्ता कवल्यमुक्त । तत्स्वरूपमवधार्यते –

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *