भो॰ वृ॰ १.०१

.

॥ अथ योग–अनुशासनम्

अनेन सूत्रेण शास्त्रस्य संबन्ध–अभिधेय–प्रयोजनानि आख्यायन्ते। अथ–शब्दः अधिकार–द्योतकः, मङ्गल–अर्थकः च। योगः = युक्तिः, समाधानम्। युज समाधौ[ДП 4:67]। अनु–शिष्यते व्याख्यायते लक्षण–भेद–उपाय–फलैः येन, तत् अनुशासनम्। योगस्य अनुशासनं = योग–अनुशासनम्।
तदा आशास्त्र–परिसमाप्तेः अधिकृतं बोद्धव्यम्, इति अर्थः।
तत्र शास्त्रस्य व्युत्पाद्यतया योगः स–साधनः स–फलः अभिधेयः। तद्–व्युत्पादनं च फलम्। व्युत्पादितस्य योगस्य कैवल्यं फलम्। शास्त्र–अभिधेययोः प्रतिपाद्य–प्रतिपादक–भाव–लक्षणः संबन्धः। अभिधेयस्य तद्–फलस्य च कैवल्यस्य साध्य–साधन–भावः।
एतत् उक्तं भवति –
व्युत्पाद्यस्य योगस्य साधनानि शास्त्रेण प्रदर्श्यन्ते।
तद्–साधन–सिद्धः = योगः, कैवल्य–आख्यं फलम् उत्पादयति॥

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *