भो॰ वृ॰ १.०२

तत्र कः योगः, इति [अतः] आह–

॥ योगः चित्त–वृत्ति–निरोधः

चित्तस्य निर्मल–सत्त्व–परिणाम–रूपस्य याः वृत्तयः अङ्ग–अङ्गि–भाव–परिणाम–रूपाः, तासां निरोधः बहिर्मुख*–परिणति–विच्छेदात्, अन्तर्मुखतया प्रतिलोम–परिणामेन [स्व–]स्व–कारणे लयः = योगः, इति आख्यायते ।
* –मुख–परि‍॰। –मुखतया परि॰।
सः च निरोधः, सर्वासां चित्त–भूमीनां* सर्व–प्राणिनां धर्मः, कदाचित् कस्यांचित् भूमौ अविर्भवति।
* चित्त–भूमीनां। चित्तस्य भूमीनां। चित्तस्य वृत्तीनाम्।
ताः च* (1) क्षिप्तं, (2) मूढं, (3) विक्षिप्तम्, (4) एकाग्रं, (5) निरुद्धम् – इति चित्तस्य भूमयः, चित्तस्य अवस्था–विशेषाः।
* ताः च। तत्र। 
तत्र
(1) क्षिप्तं = रजसः उद्रेकात् अस्थिरं; बहिर्मुखतया सुख–दुःख-आदि–विषयेषु विकल्पितेषु व्यवहितेषु [सन्निहितेषु] वा रजसा प्रेरितम्। तत् च सदैव दैत्य–दानव-आदीनाम्।
(2) मूढं = तमसः उद्रेकात् कृत्य–अकृत्य–विभागम् अन्तरेण क्रोध-आदिभिः विरुद्ध–कृत्येषु एव नियमितम्। तत् च सदैव रक्षः–पिशाच-आदीनाम्।
(3) विक्षिप्तं [तु] सत्त्व–उद्रेकात् वैशिष्ट्येन परिहृत्य* दुःख–साधनं सुख–साधनेषु एव शब्द-आदिषु प्रवृत्तम्। तत् च सदैव देवानाम्।
* परिहृत्य। परिहृति–दुःख–।
एतत् उक्तं भवति –
रजसा प्रवृत्ति–रूपं, तमसा पर–अपकार–नियतं*, सत्त्वेन सुख–मयं चित्तं भवति ।
*–नियतं। –निरतं।
एताः तिस्रः चित्त–अवस्थाः समाधौ अनुपयोगिन्यः*। एकाग्र–निरुद्ध–रूपे** द्वे च सत्त्व–उत्कर्षात् यथा उत्तरम् अवस्थितत्त्वात् समाधौ उपयोगं भजेते।
* समाधौ अनुपयोगिन्यः। न समाधौ उपयोगिन्यः।
** निरुद्ध–रूपे। –निरुद्धे तु एवम्।
सत्त्व-आदि–क्रम–व्युत्क्रमे तु अयम् अभिप्रायः – द्वयोः अपि रजस्–तमसोः अत्यन्त–हेयत्वे* [अपि] तद्–अर्थं रजसः प्रथमम् उपादानम्।
* –हेयत्वे। –हेयत्वं।
यावत् न प्रवृत्तिः दर्शिता, तावन् निवृत्तिः न शक्यते दर्शयितुम्, इति द्वयोः व्यत्ययेन प्रदर्शनम्।
सत्त्वस्य तु एतत् अर्थं पश्चात् प्रदर्शनं यत्, तस्य उत्कर्षेण उत्तरे द्वे भूमी योग–उपयोगिनि अविति। अनयोः द्वयोः एकाग्र–निरुद्धयोः भूम्योः* यः चित्तस्य एकाग्रता–रूपः परिणामः, सः योगः, इति उक्तं भवति। एकाग्रे बहिर्–वृत्ति–निरोधः, निरुद्धे च सर्वासां वृत्तिनां, संस्काराणां च प्रविलयः, इति अनयोः एव भूम्योः योगस्य संभवः॥
* भूम्योः। भूमिकयोः।

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *