भो॰ वृ॰ १.१२

एवं, वृत्तीः व्याख्याय, स–उपायं निरोधं व्याख्यातुम् आह–

॥ अभ्यास–वैराग्याभ्यां तद्–निरोधः

अभ्यास–वैराग्ये वक्ष्यमाण–लक्षणे, [1 ताभ्यां प्रकाश–प्रवृत्ति–नियम–रूपाः याः वृत्तयः, तासां निरोधः भवति।]
[2 ताभ्यां तासां प्रकाश–प्रवृत्ति–नियम–रूपाणां चित्त–वृत्तीनां, यत् प्रतिहननं, सः निरोधः। ]
इति उक्तं भवति–
तासां विनिवृत्त–बाह्य–अभिनिवेशानाम् अन्तर्–मुखतया स्व–कारणः एव चित्ते शक्ति–रूपतया अवस्थानम्। तत्र विषय–दोष–दर्शन–जेन वैराग्येण तद्–वैमुख्यम् उत्पाद्यते। अभ्यासेन च सुख–जनकं शान्त–प्रवाह–प्रदर्शन–द्वारेण दृढ–स्थैर्यम् उत्पाद्यते। इत्थं ताभ्यां भवति चित्त–वृत्ति–निरोधः॥

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *