भो॰ वृ॰ १.१५

वैराग्यस्य लक्षणम् आह –

॥ दृष्ट–आनुश्रविक–विषय–वितृष्णस्य वशीकार–संज्ञा वैराग्यम्

द्वि–विधः हि विषयः – दृष्टः, आनुश्रविकः च।
दृष्टः इह एव उपलभ्यमानः शब्द–आदिः।
देव–लोक–आदौ आनुश्रविकः। अनुश्रूयते गुरु–मुखात् इति अनुश्रवः वेदः; ततः आगतः = आनुश्रविकः। तयोः द्वयोः अपि विषययोः परिणाम–विरसत्व–दर्शनात् विगत–गर्धस्य, या वशीकार–संज्ञा «मम एते वश्याः, न अहम् एतेषां वश्यः», – इति यः अयं विमर्शः, तत् वैराग्यम् उच्यते॥

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *