भो॰ वृ॰ १.१७

एवं, योगस्य स्वरूपम् उक्त्वा, संप्रज्ञात–स्वरूप–भेदम् आह –

॥ वितर्क–विचार–आनन्द–अस्मिता–रूप–अनुगमात् संप्रज्ञातः

समाधिः, इति शेषः ।
सम्यक् संशय–विपर्यय–रहितत्वेन प्रज्ञायते प्रकर्षेण ज्ञायते भाव्यस्य रूपं येन, स संप्रज्ञातः समाधिः भावना–विशेषः।
सः वितर्क-आदि–भेदात् चतुर्विधः –
(1) सवितर्कः, (2) सविचारः, (3) सानन्दः, (4) सास्मितः च।
भावना भाव्यस्य विषय–अन्तर–परिहारेण चेतसि पुनः पुनः निवेशनम्।
भाव्यं च द्विविधम्– (1) ईश्वरः, (2) तत्त्वानि च।
तानि अपि द्विविधानि जड–अजड–भेदात्।
जडानि = चतुर्विंशतिः।
अजडः = पुरुषः।
तत्र यदा महाभूतानि इन्द्रियाणि स्थूलानि विषयत्वेन–आदाय पूर्व–अपर–अनुसन्धानेन शब्द–अर्थ–उल्लेख–संभेदेन च भावना क्रियते, तदा सवितर्कः समाधिः।
अस्मिन् एव आवलम्बने पूर्व–अपर–अनुसन्धान–शब्द–उल्लेख–शून्यत्वेन यदा भावना प्रवर्तते, तदा निर्वितर्कः।
तन्मात्र–अन्तःकरण–लक्षणं, सूक्ष्म–विषयम् आलम्ब्य, तस्य देश–काल–धर्म–अवच्छेदेन यदा भावना, तदा सविचारः।
तस्मिन् एव आवलम्बने देश–काल–धर्म–अवच्छेदं विना धर्मि–मात्रौ अभासित्वेन भावना क्रियमाणा निर्विचारः इति उच्यते।
एवम् पर्यन्तः समाधिः ग्राह्य समापत्तिः इति व्यपदिश्यते।
यदा तु रजस्–तमो–लेश–अनुविद्धम् अन्तःकरण–सत्त्वं भाव्यते, तदा गुण–भावाः चिति–शक्तेः सुख–प्रकाशमयस्य सत्त्वस्य भाव्य–मानस्य उद्रेकात् सानन्दः समाधिः भवति।
तस्मिन् एव समाधौ ये बद्ध–धृतयः तत्त्व–अन्तरं प्रधान–पुरुष–रूपं न पश्यन्ति, ते विगत–देह–अहंकारत्वात् विदेह–शब्द–वाच्याः। इयं ग्रहण–समापत्तिः। ततः परं रजस्–तमो–लेश–अनभिभूत–शुद्ध–सत्त्वम् आलम्बनी–कृत्य या प्रवर्तते भावना, तस्यां ग्राह्यस्य न्यग्भावाः चिति–शक्तेः उद्रेकात् सत्तामात्र–अवशेषत्वेन समाधिः “सास्मितः” इति उच्यते।
न च अहंकार–अस्मितयोः अभेदः शङ्कनीयः। यतः यत्र–अन्तःकरणम् “अहम्” इति उल्लेखेन विषयान् वेदयते, सः अहंकारः।
यत्र अन्तर्–मुखतया प्रतिलोम–परिणामे प्रकृति–लीने चेतसि सत्तामात्रम् अवभाति, सा अस्मिता।
अस्मिन् एव समाधौ ये कृत–परितोषाः परं परम–आत्मानं पुरुषं न पश्यन्ति, तेषां चेतसि स्व–कारणे लयम् उपागते “प्रकृति–लयाः” इति उच्यन्ते।
ये परं पुरुषं ज्ञात्वा भावनायां प्रवर्तन्ते, तेषाम् इयं विवेक–ख्यातिः ग्रहीतृ–समापत्तिः इति उच्यते।
तत्र संप्रज्ञाते समाधौ चतस्रः अवस्थाः शक्ति–रूपतया अवतिष्ठन्ते। तत्र एकैकस्याः त्यागः उत्तरः उत्तरः इति चतुर्–अवस्थः अयं संप्रज्ञातः समाधिः॥

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *