भो॰ वृ॰ १.१८

असंप्रज्ञातम् आह–

॥ विराम–प्रत्यय–अभ्यास–पूर्वः संस्कार–शेषः अन्यः

विरम्यते अनेन, इति विरामः वितर्क–आदि–चिन्ता–त्यागः। विरामः च आसौ प्रत्ययः च = इति विराम–प्रत्ययः। तस्य अभ्यासः पौनः–पुन्येन चेतसि निवेशनम्। तत्र या काचित् वृत्तिः उल्लसति तस्या नेति नेति इति नैरन्तर्येण पर्युदसनं विराम–प्रत्यय–अभ्यासः। तद्–पूर्वः संप्रज्ञात–समाधिः। संस्कार–शेषः अन्यः तद्–विलक्षणः अयम् असंप्रज्ञातः, इति अर्थः। न तत्र किंचित् वेद्यम् [संप्रज्ञाय इति] असंप्रज्ञातः = निर्बीजः समाधिः। इह चतुर्विधः चित्तस्य परिणामः– (1) व्युत्थानं, (2) समाधि–प्रारम्भः, (3) एकाग्रता, (4) निरोधः च ।
तत्र
1) क्षिप्त–मूढे चित्त–भूमिः = व्युत्थानम्।
2) विक्षिप्ता भूमिः [च] सत्त्व–उद्रेकात् = समाधि–प्रारम्भः।
3-4) निरुद्ध–एकाग्रते च पर्यन्त–भूमिः।
प्रतिपरिणामं च संस्काराः।
तत्र
व्युत्थान–जनिताः संस्काराः समाधि–प्रारम्भ–जैः संस्कारैः प्रत्याहन्यन्ते।
तद्–जाः च एकाग्रता–जैः।
निरोध–जनितैः एकाग्रता–जाः।
निरोध–जाः संस्काराः स्वरूपं च हन्यन्ते।
यथा सुवर्ण–संवलितं ध्यायमानं सीसकम–आत्मानं सुवर्ण–मलं च निर्दहति, एवम् एकाग्रता–जनितान् संस्कारान् निरोध–जाः स्वात्मानं च निर्दहन्ति॥

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *