भो॰ वृ॰ १.२३

1 Коренной текст
.
इदानीमेतदुपायविलक्षणं सुगममुपायान्तरं दर्शयितुमाह–

ईश्वरप्रणिधानाद्वा ॥२३॥

ईश्वरो वक्ष्यमाणलक्षणः । तत्र प्रणिधानं भक्तिविशेषो विशिष्टमुपासनं सर्वक्रियाणां तत्रार्पणम् ।
विषयसुखादिकं फलमनिच्छन् सर्वाः क्रियास्तस्मिन् परमगुरावर्पयति । तत्प्रणिधानं समाधेस्तत्फललाभस्य च
प्रकृष्ट उपायः ॥२३॥
.
.
2 Пословная разбивка
.
इदानीम् एतद्+उपाय+वि–लक्षणम् सुगमम् उपाय–अन्तरम् दर्शयितुम् आह–

ईश्वर+प्रणिधानात् वा ॥२३॥

ईश्वरः वक्ष्यमाण+लक्षणः । तत्र प्रणिधानम् भक्ति+विशेषः विशिष्टम् उपासनम् सर्व+क्रियाणाम् तत्र उर्पणम् । विषय–सुख–आदिकम् फलम् अनिच्छन् सर्वाः क्रियाः तस्मिन् परमगुरौ अर्पयति । तत्+प्रणिधानम् समाधेः तत्+फल+लाभस्य च प्रकृष्टः उपायः ॥२३॥

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *