भो॰ वृ॰ १.४१

एवम् एभिः उपायैः संस्कृतस्य चेतसः कीदृक् रूपं भवति, इति आह–

॥ क्षीण–वृत्तेः अभिजातस्य इव मणेः ग्रहीतृ–ग्रहण–ग्राह्येषु तत्स्थ–तद्–अञ्जनता समापत्तिः

क्षीणाः वृत्तयः यस्य, सः क्षीण–वृत्तिः तस्य ग्रहीतृ–ग्रहण–ग्राह्येषु आत्म–इन्द्रिय–विषयेषु तद्–स्था–तद्–अञ्जनता समापत्तिः भवति। तद्–स्थत्वं = तत्र एकाग्रता। तद्–अञ्जनता = तन्मयत्वम्। क्षीण–भूते चित्ते विषयस्य भाव्य–मानस्य एव उत्कर्षः। तथा–विधा समापत्तिः तद्रूपः परिणामः भवति, इति अर्थः।
दृष्टान्तम् आह– अभिजातस्य इव मणेः इति। यथा अभिजातस्य निर्मल–स्फटिक–मणेः तद्–तद्–उपाधि–वशात् तद्–तद्रूप–आपत्तिः एवं निर्मलस्य चित्तस्य तद्–तद्–भावनीय–वस्तु–उपरागात् तद्–तद्रूप–आपत्तिः।
यद्यपि ग्रहीतृ–ग्रहण–ग्राह्येषु इति उक्तं, तथापि भूमिकाक्रम–वशात् ग्राह्य–ग्रहण–ग्रहीतृषु, इति बोध्यम्। यतः प्रथमं ग्राह्य–निष्ठः एव समाधिः, ततः ग्रहण–निष्ठः, ततः अस्मिता–मात्र–रूपः ग्रहीतृ–निष्ठः केवलस्य पुरुषस्य ग्रहीतुः भाव्यत्व–असंभवात्। ततःच स्थूल–सूक्ष्म–ग्राह्य–उपरक्तं चित्तं तत्र समापन्नं भवति। एवं ग्रहणे ग्रहीतरि च समापन्नं बोध्यव्यम्॥

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *