भो॰ वृ॰ १.४७

अथ इतरासां समापत्तीनां निर्विचार–फलत्वान् निर्विचारायाः फलम् आह–

॥ निर्विचार-वैशारद्ये अध्यात्म–प्रसादः

निर्विचारत्वं व्याख्यातम्[1:44]; वैशारद्यं = नैर्मल्यम्। सवितर्कां स्थूल–विषयाम् अपेक्ष्य निर्वितर्कायाः प्राधान्यम्। ततः अपि सूक्ष्म–विषयायाः सविचारायाः। ततः अपि निर्विचारायाः। तस्याः तु निर्विकल्प–रूपायाः प्रकृष्ट–अभ्यास–वशात् वैशारद्ये नैर्मल्ये सति अध्यात्म–प्रसादः समुपजायते। चित्तं क्लेश–वासना–रहितं स्थिति–प्रवाह–योग्यं भवति। एतत् एव चित्तस्य वैशारद्यं यत् स्थितौ दार्ढ्यम्॥

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *