भो॰ वृ॰ १.४९

अस्याः प्रज्ञा–अन्तरात् वैलक्षण्यम् आह–

॥ श्रुत–अनुमान–प्रज्ञाभ्याम् अन्य*–विषया विशेष–अर्थत्वात्

श्रुतम्=आगम–ज्ञानम्; अनुमानम्=उक्त–लक्षणम्[1:7]। ताभ्यां या जायते प्रज्ञा, सा सामान्य–विषया, न हि शब्द–लिङ्गयोः इन्द्रियवत् विशेष–प्रतिपत्तौ सामर्थ्यम्। इयं पुनः निर्विचार–वैशारद्य–समुद्भवा प्रज्ञा ताभ्यां विलक्षणा विशेष–विषयत्वात्। अस्यां हि प्रज्ञायां सूक्ष्म–व्यवहित–विप्रकृष्टानाम् अपि विशेषः स्फुटेन एव रूपेण भासते।
अतः तस्याम् एव योगिना परः प्रयत्नः कर्तव्यः, इति उपदिष्टं भवति॥

* Чтение समन्य- ошибочно.

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *