भो॰ वृ॰ ३.१७

सिद्ध्यन्तरमाह —

शब्दार्थप्रत्ययानामितरेतराध्यासात्सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥विभूति १७॥

वृत्तिः —शब्दः श्रोत्रेन्द्रियग्राह्यो नियतक्रमवर्णात्मा
नियतैकार्थप्रतिपत्त्यवच्छिन्नः । यदि वा क्रमरहितस्फोटात्मा
शास्त्रसंस्कृतबुद्धिग्राह्यः [पा० ध्वनिसंस्कृतबुद्धिग्राह्यः]।
उभयथाऽपि पदरूपो वाक्यरूपश्च तयोरेकार्थप्रतिपत्तौ सामर्थ्यात् ।
अर्थो जातिगुणक्रियादिः । प्रत्ययो ज्ञानं विषयाकारा बुद्धिवृत्तिः ।
एषां शब्दार्थज्ञानानां व्यवहारे इतरेतराध्यासाद्भिन्नानामपि
बुद्ध्येकरूपतासम्पादनात् सङ्कीर्णत्वम् । तथाहि —गामानयेत्युक्ते
कश्चिद्गोलक्षणमर्थं गोत्वजात्यवच्छिन्नं सास्नादिमत् पिण्डरूपं
शब्दं च तद्वाचकं ज्ञानं च तद्ग्राहकमभेदेनैवाध्यवस्यति
न त्वस्य गोशब्दो वाचकोऽयं गोशब्दस्य वाच्यस्तयोरिदं ग्राहकं
ज्ञानमिति भेदेन व्यवहरति । तथाहि —कोऽयमर्थः कोऽयं
शब्दः किमिदं ज्ञानमिति पृष्टः सर्वत्रैकरूपमेवोत्तरं ददाति
गौरिति । स यद्येकरूपतां न प्रतिपद्यते कथमेकरूपमुत्तरं
प्रयच्छति ।
एवं तस्मिन्नवस्थिते योऽयं [पा० एकस्मिन् विषये योऽयम् ।
एतस्मिन् स्थिते योऽयम् वा]प्रविभाग इदं शब्दस्य तत्त्वं
यद्वाचकत्वं नाम इदमर्थस्य यद्वाच्यत्वमिदं ज्ञानस्य यत्
प्रकाशकत्वमिति प्रविभागं विधाय तस्मिन् प्रविभागे यः संयमं
करोति तस्य सर्वेषां भूतानां मृगपक्षिसरीसृपादीनां यद्रुतं
यः शब्दस्तत्र ज्ञानमुत्पद्यते । अनेनैवाभिप्रायेण तेन प्राणिनायं
शब्दः समुच्चारित इति सर्वं जानाति ॥१७॥

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *