सिद्ध्यन्तरमाह —
प्रत्ययस्य परचित्तज्ञानम् ॥विभूति १९॥
वृत्तिः —प्रत्ययस्य परचित्तस्य केनचिन्मुखरागादिना लिङ्गेन
गृहीतस्य यदा संयमं करोति तदा परकीयचित्तस्य ज्ञानमुत्पद्यते
सरागमस्य चित्तं वीतरागं वेति । परचित्तगतान् सर्वानपि धर्मान्
जानातीत्यर्थः ॥१९॥