भो॰ वृ॰ ३.२३

परिकर्मनिष्पादिताः सिद्धीः प्रतिपादयितुमाह —

मैत्र्यादिषु बलानि ॥विभूति २३॥

वृत्तिः —मैत्रीकरुणामुदितोपेक्षासु यो
विहितसंयमस्तद्बलानि तासां मैत्र्यादीनां सम्बन्धीनि प्रादुर्भवन्ति ।
मैत्रीकरुणामुदितोपेक्षास्तथाऽस्य प्रकर्षं गच्छन्ति यथा सर्वस्य
मित्रत्वादिकमय्ऽं प्रतिपद्यते ॥२३॥

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *