सिद्ध्यन्तरमाह —
प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥विभूति २५॥
वृत्तिः —प्रवृत्तिर्विषयवती ज्योतिष्मती च प्रागुक्ता
(१.३५-३६). तस्या य आलोकः सात्त्विकप्रकाशस्तस्य
निखिलेषु विषयेषु न्यासात् तद्वासितानां विषयाणां भावनातः
सन्तःकरणेषु इन्द्रियेषु च प्रकृष्टशक्तिमापन्नेषु सुसूक्ष्मस्य
परमाण्वादेर्व्यवहितस्य भूम्यन्तर्गतस्य निधानादेर्विप्रकृष्टस्य
मेर्वपरपार्श्ववर्तिनो रसायनादेर्ज्ञानमुत्पद्यते ॥२५॥