सिद्ध्यन्तरमाह —
ध्रुवे तद्गतिज्ञानम् ॥विभूति २८॥
वृत्तिः —ध्रुवे निश्चले ज्योतिषां प्रधाने कृतसंयमस्य
तासां ताराणां या गतिः प्रत्येकं नियतकाला नियतदेशा च तस्या
ज्ञानमुत्पद्यते —इयं ताराऽयं ग्रह इयता कालेनाऽमुं राशिमिदं
नक्षत्रं यास्यतीति सर्वं जानाति । इदं कालज्ञानस्य फलमित्युक्तं
भवति ॥२८॥