भो॰ वृ॰ ३.४१

सिद्ध्यन्तरमाह —

श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् ॥विभूति ४१॥

वृत्तिः —श्रोत्रं शब्दग्राहकमाहङ्कारिकमिन्द्रियम् । आकाशं व्योम
शब्दतन्मात्रकार्यम् । तयोः सम्बन्धो देशदेशिभावलक्षणस्तस्मिन्
कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते । युगपत्
सूक्ष्मव्यवहितविप्रकृष्टशब्दग्रहणसमर्थं भवतीत्यर्थः ॥४१॥

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *