भो॰ वृ॰ ३.४२

सिद्ध्यन्तरमाह —

कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनम् ॥विभूति ४२॥

वृत्तिः —कायः पाञ्चभौतिकं शरीरम् ।
तस्याकाशेनावकाशदायकेन यः सम्बन्धस्तत्र संयमं विधाय लघुनि
तूलादौ समापत्तिं तन्मयीभावलक्षणां विधाय प्राप्तातिलघुभावो
योगी प्रथमं यथारुचि जले सञ्चरणक्रमेणोर्णनाभतन्तुजालेन
सञ्चरमाण आदित्यरश्मिभिश्च विहरन् यथेष्टमाकाशेन गच्छति ॥४२॥

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *