भो॰ वृ॰ ३.४५

तस्यैव भूतजयस्य फलमाह —

ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्माऽनभिघातश्च ॥विभूति
४५॥

वृत्तिः —१. अणिमा परमाणुरूपतापत्तिः । २. महिमा
महत्त्व्प्राप्तिः । ३. लघिमा तूलपिण्डवल्लघुत्वप्राप्तिः । ४. गरिमा
गुरुत्वप्राप्तिः । ५. प्राप्तिरङ्गुल्यग्रेण चन्द्रादिस्पर्शनशक्तिः ।
६. प्राकाम्यमिच्छानभिघातः । ७. शरीरान्तःकरणेश्वरत्वमीशित्वम् ।
८. सर्वत्र प्रभविष्णुता वशित्वम् । सर्वाण्येव
भूतान्यनुगामित्वात्तदुक्तं नातिक्रामन्ति । ९. यत्रकामावसायो यस्मिन्
विषयेऽस्य कामः स्वेच्छा भवति तस्मिन् विषये योगिनोऽध्यवसायो
भवति । तं विषयं स्वीकारद्वारेणाभिलाषसमाप्तिपर्यन्तं
नयतीत्यर्थः । त एतेऽणिमाद्याः समाध्युपयोगिनो भूतजयाद्योगिनः
प्रादुर्भवन्ति । यथा परमाणुत्वं प्राप्तो वज्रादीनामप्यन्तः प्रविशति ।
एवं सर्वत्र योज्यम् । एतेऽणिमादयोऽष्टौ गुणा महासिद्धय
उच्यन्ते ।
कायसम्पद्वक्ष्यमाणा (३.४६)तां प्राप्नोति ।
तद्धर्माऽनभिघातश्च तस्य कायस्य ये धर्मा
रूपादयस्तेषामनभिघातो नाशो न कुतश्चिद्भवति नास्य
रूपमग्निर्दहति न वायुः शोषयतीत्यादि योज्यम् ॥४५॥

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *