भो॰ वृ॰ ४.१६

यद्येवं ज्ञानं चेत् प्रकाशकत्वाद्ग्रहणस्वभावमर्थश्च
प्रकाश्यत्वाद्ग्राह्यस्वभावस्तदा युगपत् सर्वानर्थान् कथं न गृह्णाति ।
न स्मरति चेत्याशङ्कां परिहर्तुमाह —

तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥कैवल्य १६॥

वृत्तिः —तस्यार्थस्योपरागादाकारसमर्पणाच्चित्ते बाह्यं वस्तु
ज्ञातमज्ञातं च भवति । अयमर्थः —सर्वः पदार्थ आत्मलाभे
चित्तं सामग्रीमपेक्षते । नीलादिज्ञानं चोपजायमानमिन्द्रियप्रणालिकया
समागतमर्थोपरागं सहकारिकारणत्वेनापेक्षते । व्यतिरिक्तस्यार्थस्य
सम्बन्धाभावाद्ग्रहीतुमशक्यत्वात् ।
ततश्च येनैवार्थेनास्य स्वरूपोपरागः कृतस्तमेवार्थं
तज्ज्ञानं व्यवहारयोग्यतां नयति । ततः सोऽर्थो ज्ञात उच्यते ।
येन चाऽऽकारो न समर्पितः स न ज्ञातत्वेन व्यवह्रियते ।
यस्मिंश्चानुभूतेऽर्थे सादृश्यादिरर्थः संस्कारमुद्बोधयन्
सहकारितां प्रतिपद्यते तस्मिन्नेवार्थे स्मृतिरुपजायत इति न सर्वत्र
ज्ञानं नापि स्मृतिरिति न कश्चिद्विरोधः ॥१६॥

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *