भो॰ वृ॰ ४.१७

यद्येवं प्रमातापि पुरुषो यस्मिन् काले नीलं वेदयते न तस्मिन् काले
पीतादिमतश्चित्तसत्त्वस्यापि कदाचित् ग्रहीतृरूपत्वादाकारग्रहणे
परिणामित्वं प्राप्तमित्याशङ्कां परिहर्तुमाह —

सदा ज्ञाताश्चित्तवृत्तयः तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥कैवल्य १७॥

वृत्तिः —या एताश्चित्तस्य प्रमाणविपर्ययादिरूपा वृत्तयः,
तास्तत्प्रभोश्चित्तस्य ग्रहीतुः पुरुषस्य सदा सर्वकालमेव
ज्ञाताः [पा० ग़्येयाः]। तस्य चिद्रूपतयाऽपरिणामित्वात्
परिणामित्वाभावादित्यर्थः । यद्यसौ परिणामी स्यात् तदा परिणामस्य
कादाचित्कत्वात् तासां चित्तवृत्तीनां सदा ज्ञातत्वं नोपपद्येत ।
अयमर्थः —पुरुषस्य चिद्रूपस्य सदैवाधिष्ठातृत्वेन
व्यवस्थितस्य यदन्तरङ्गं निर्मलं सत्त्वम् तस्यापि
सदैवावस्थितत्वाद्येनार्थेनोपरक्तं भवति तथाविधस्यार्थस्य सदैव
चिच्छायासङ्क्रान्तिसद्भावस्तस्यां सत्यां सिद्धं ज्ञातृत्वमिति न
कदाचित् काचित् परिणामित्वाशङ्का ॥१७॥

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *