भो॰ वृ॰ ४.१९

ननु साध्याविशिष्टोऽयं हेतुः । दृश्यत्वमेव चित्तस्यासिद्धम् ।
किञ्च स्वबुद्धिसंवेदनद्वारेण हिताहितप्राप्तिपरिहाररूपा वृत्तयो
दृश्यन्ते । तथाहि —क्रुद्धोऽहं भीतोऽहमत्र मे राग
इत्येवमाद्या संवित् बुद्धेरसंवेदने नोपपद्यत इत्याशङ्कामपनेतुमाह

एकसमये चोभयानवधारणम् ॥कैवल्य १९॥

वृत्तिः —अर्थस्य संवित्तिरिदन्तया व्यवहारयोग्यतापादनम् ।
अयमर्थः सुखहेतुर्दुःखहेतुर्वेति । बुद्धेः संविदहमित्येवमाकारेण
सुखदुःखरूपतया व्यवहारक्षमतापादनम् । एवंविधं च
व्यापारद्वयमर्थप्रत्यक्षकाले न युगपत् कर्तुं शक्यं विरोधात् । न
हि विरुद्धयोर्व्यापारयोर्युगपत् सम्भवोऽस्ति ।
अत एकस्मिन् काल उभयस्य स्वरूपस्याऽर्थस्य
चावधारयितुमशक्यत्वान्न चित्तं स्वप्रकाशकं भवति । किन्तु
एवंविधव्यापारद्वयनिष्पाद्यस्य फलद्वयस्यासंवेदनाद्बहिर्मुखतयैव
स्वनिष्ठत्वेन चित्तस्य स्वयं वेदनादर्थनिष्ठमेव फलं न
स्वनिष्ठमित्यर्थः ॥१९॥

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *