भो॰ वृ॰ ४.२०

ननु मा भूद्बुद्धेः स्वयं ग्रहणं बुद्ध्यन्तरेण
भविष्यतीत्याशङ्क्याह —

चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥कैवल्य २०॥

वृत्तिः —यदि हि बुद्धिर्बुद्ध्यन्तरेण वेद्यते साऽपि बुद्धिः
स्वयमबुद्धा बुद्ध्यन्तरं प्रकाशयितुमसमर्थेति तस्या ग्राहकं [
पा० बोधकम् ]बुद्ध्यन्तरं कल्पनीयं तस्याऽप्यन्यदित्यनवस्थानात्
पुरुषान्तरेणार्थप्रतीतिर्न स्यात् । न हि प्रतीतवप्रतीतायामर्थः
प्रतीतो भवति ।
स्मृतिसङ्करश्च प्राप्नोति —रूपे रसे वा समुत्पन्नायां
बुद्धौ तद्ग्राहिकाणामनन्तानां बुद्धीनां समुत्पत्तेर्बुद्धिजनितैः
संस्कारैर्यदा युगपद्बह्वयः स्मृतयः क्रियन्ते तदा
बुद्धेरपर्यवसानाद्बुद्धिस्मृतीनां च बह्वीनां युगपदुत्पत्तेः
कस्मिन्नर्थे स्मृतिरियमुत्पन्नेति ज्ञातुमश्क्यत्वात् स्मृतीनां सङ्करः
स्यात् । इयं रूपे स्मृतिरियं रसे स्मृतिरिति न ज्ञायेत ॥२०॥

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *