भो॰ वृ॰ ४.२२

इत्थं स्वसंविदितं चित्तं सर्वानुग्रहणसामर्थ्येन
सकलव्यवहारनिर्वाहक्षमं भविष्यतीत्याह —

द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥कैवल्य २२॥

वृत्तिः —द्रष्टा पुरुषस्तेनोपरक्तं तत्सन्निधानेन तद्रूपतामिव
प्राप्नोति दृश्योपरक्तं विषयोपरक्तं गृहीतविषयाकारपरिणामं
यदा भवति तदा तदेव चित्तं सर्वार्थग्रहणसमर्थं भवति ।
यथा निर्मलं स्फटिकदर्पणाद्येव प्रतिबिम्बग्रहणसमर्थम् । एवं
रजस्तमोभ्यामनभिभूतं सत्त्वं शुद्धत्वाच्चिच्छायाग्रहणसमर्थं
भवति । न पुनरशुद्धत्वाद्रजस्तमसी ।
तन्न्यग्भूतरजस्तमोरूपमङ्गितया सत्त्वं
निश्चलप्रदीपशिखाकारं सदैकरूपतया परिणममानं
चिच्छायाग्रहणसामर्थ्यादामोक्षप्राप्तेरवतिष्ठते ।
यथाऽयस्कान्तसन्निधाने लोहस्य चलनमाविर्भवत्येवं
चिद्रूपपुरुषसन्निधाने सत्त्वस्याभिव्यङ्ग्यमभिव्यज्यते चैतन्यम् ।
अत एवास्मिन्दर्शने द्वे चिच्छक्ती —
नित्योदिताऽभिव्यङ्ग्या च । नित्योदिता चिच्छक्तिः
पुरुषसन्निधानादभिव्यक्तमभिव्यङ्ग्यचैतन्यं सत्त्वम् । अभिव्यङ्ग्या
चिच्छक्तिस्तदत्यन्तसन्निहितत्वादन्तरङ्गं पुरुषस्य भोग्यतां
प्रतिपद्यते । तदेव शान्तब्रह्मवादिभिः साङ्ख्यैः पुरुषस्य
परमात्मनोऽधिष्ठेयं कर्मानुरूपं सुखदुःखभोक्तृतया
व्यपदिश्यते ।
यत्त्वनुद्रिक्तत्वादेकस्यापि गुणस्य कदाचित् कस्यचिदङ्गित्वात् त्रिगुणं
प्रतिक्षणं परिणममानं सुखदुःखमोहात्मकमनिर्मलं तत्तस्मिन्
कर्मानुरूपे शुद्धे सत्त्वे स्वाकारसमर्पणद्वारेण संवेद्यतामापादयति
तच्छुद्धमाद्यं चित्तसत्त्वमेवेति प्रतिसङ्क्रान्तचिच्छायमन्यतो
गृहीतविषयाकारेण चित्तेनोपढौकितमाकारं चित्सङ्क्रान्तिबलात्
चेतनायमानं वास्तवचैतन्याभावेऽपि सुखदुःखस्वरूपं
भोगमनुभवति । स एवं भोगोऽत्यन्तसन्निधानेन
विवेकाग्रहणादभोक्तुरपि पुरुषस्य भोग इति व्यपदिष्यते ।
अनेनैवाभिप्रायेण विन्ध्यवासिनोक्तम् —सत्त्वतप्यत्वमेव
पुरुषतप्यत्वमिति । अन्यत्रापि —प्रतिबिम्बे
प्रतिबिम्बमानच्छायासदृशच्छायोद्भवः प्रतिबिम्बशब्देनोच्यते ।
एवं सत्त्वेऽपि पौरुषेयचिच्छायासदृशचिदभिव्यक्तिः
प्रतिसङ्क्रान्तिशव्दार्थ इति ।
ननु प्रतिबिम्बं नाम निर्मलस्य नियतपरिणामस्य निर्मले दृष्टम् ।
यथा मुखस्य दर्पणे । अत्यन्तनिर्मलस्य व्यापकस्यापरिणामिनः
पुरुषस्य तस्मादत्यन्तनिर्मलात् पुरुषादनिर्मले सत्त्वे कथं
प्रतिबिम्बनमुपपद्यते ।
उच्यते —प्रतिबिम्बनस्य स्वरूपमनवगच्छता भवतेदमभ्यधायि ।
यैव सत्त्वगताया अभिव्यङ्ग्यायाश्चिच्छक्तेः पुरुषस्य
सान्निध्यादभिव्यक्तिः सैव प्रतिबिम्बनमुच्यते । यादृशी पुरुषगता
चिच्छक्तिस्तच्छायाप्यत्राविर्भवति ।
यदप्युक्तमत्यन्तनिर्मलः पुरुषः कथमनिर्मले सत्त्वे
प्रतिसङ्क्रामतीति तदप्यनैकान्तिकम् । नैर्मल्यादपकृष्टेऽपि
जलादावादित्यादयः प्रतिसङ्क्रान्ताः समुपलभ्यन्ते ।
यदप्युक्तमनवच्छिन्नस्य नास्ति प्रतिसङ्क्रान्तिरिति तदप्ययुक्तं
व्यापकस्याप्याकाशस्य दर्पनादौ प्रतिसङ्क्रान्तिदर्शनात् । एवं सति न
काचिदनुपपत्तिः प्रतिबिम्बदर्शनस्य ।
ननु सात्त्विकपरिणामरूपे बुद्धिसत्त्वे
पुरुषसन्निधानादभिव्यङ्ग्यायाश्चिच्छक्तेर्बाह्याकारसङ्क्रान्तौ
पुरुषस्य सुखदुःखरूपो भोग इत्युक्तम् तदनुपपन्नम् । तदेव
चित्तसत्त्वं प्रकृतावपरिणतायां कथं सम्भवति किमर्थश्च
तस्याः परिणामः ।
अथोच्येत पुरुषस्यार्थोपभोगसम्पादनं तया कर्तव्यम् । अतः
पुरुषार्थकर्तव्यतयाऽस्या युक्त एव परिणामः । तच्चानुपपन्नम् ।
पुरुषार्थकर्तव्यताया एवानुपपत्तेः । पुरुषार्थो मया कर्तव्य
एवंविधोऽध्यवसायः पुरुषार्थकर्तव्यतोच्यते । जडायाश्च
प्रकृतेः कथं प्रथममेवंविधोऽध्यवसायः । अस्ति चेदध्यवसायः
कथं जडत्वम् ।
अत्रोच्यते —अनुलोमप्रतिलोमलक्षणपरिणामद्वये
सहजं शक्तिद्वयमस्ति । तदेव पुरुषार्थकर्तव्यतोच्यते ।
सा च शक्तिरचेतनाया अपि प्रकृतेः सहजैव । तत्र
महदादिमहाभूतपर्यन्तोऽस्या बहिर्मुखतयाऽनुलोमः परिणामः । पुनः
स्वकारणानुप्रवेशनद्वारेणास्मिताऽन्तः परिणामः प्रतिलोमः ।
इत्थं पुरुषस्य भोगपरिसमाप्तेः [पा० आ भोगपरिसमप्तेः]
सहजशक्तिद्वयक्षयात् कृतार्था प्रकृतिर्न पुनः परिणाममारभते ।
एवंविधायां च पुरुषार्थकर्तव्यतायां जडाया अपि प्रकृतेर्न
काचिदनुपपत्तिः ।
ननु यदीदृशी शक्तिः सहजैव प्रधानस्यास्ति तत् किमर्थं
मोक्षार्थिभिर्मोक्षाय यत्नः क्रियते । मोक्षस्य चानर्थनीयत्वे
तदुपदेशकशास्त्रस्यानर्थक्यं स्यात् । उच्यते —योऽयं
प्रकृतिपुरुषयोरनादिर्भोग्यभोक्तृत्वलक्षणः [पा०
भोक्तृभाबलक्षणः ]सम्बन्धस्तस्मिन् सति व्यक्तचेतनायाः
प्रकृतेः कर्तृत्वाभिमानाद्दुःखानुभवे सति कथमियं
दुःखनिवृत्तिरात्यन्तिकी मम स्यादिति भवत्येवाध्यवसायः । अतो
दुःखनिवृत्त्युपायोपदेशकशास्त्रोपदेशापेक्षाऽस्त्येव प्रधानस्य ।
तथाभूतमेव कर्मानुरूपं बुद्धिसत्त्वं शास्त्रोपदेशस्य विषयः ।
दर्शनान्तरेष्वप्येवंविध एवाविद्यास्वभावः शास्त्रेऽधिक्रियते [
अभिधीयते ]।
स च मोक्षाय प्रयतमान एवंविधशास्त्रोपदेशं सहकारिणमपेक्ष्य
मोक्षाख्यं फलमासादयति । सर्वाण्येव कार्याणि प्राप्तायां
सामग्र्यामात्मानं लभन्ते । अस्य प्रतिलोमपरिणामद्वारेणैवोत्पाद्यस्य
मोक्षाख्यस्य कार्यस्येदृश्येव सामग्री प्रमाणेन निश्चिता
प्रकारान्तरेणानुपपत्तेः । अतस्तां विना कथं भवितुमर्हति ।
अतः स्थितमेतत् —सङ्क्रान्तविषयोपरागमभिव्यक्तचिच्छायं
बुद्धिसत्त्वं विषयनिश्चयद्वारेण समग्रां लोकयात्रां निर्वाहयतीति ।
एवंविधमेव चित्तं पश्यन्तो भ्रान्ताः स्वसंवेदनं चित्तं
चित्तमात्रं च जगदित्येवं ब्रुवाणाः प्रतिबोधिता भवन्ति ॥२२॥

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *