भो॰ वृ॰ ४.२३

ननु यद्येवंविधादेव चित्तात् सकलव्यवहारनिष्पत्तिः कथं
प्रमाणशून्यो द्रष्टाऽभ्युपगम्यत इत्याशङ्क्य द्रष्टुः प्रमाणमाह

तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥कैवल्य
२३॥

वृत्तिः —तदेव चित्तं सङ्ख्यातुमशक्याभिर्वासनाभिश्चित्रमपि
नानारूपमपि परार्थं परस्य स्वामिनो भोक्तुर्भोगापवर्गलक्षणमर्थं
साधयतीति । कुतः । संहत्यकारित्वात् संहत्य सम्भूय
मिलित्वाऽर्थक्रियाकारित्वात् । यच्च संहत्यार्थक्रियाकारि तत्
परार्थं दृष्टम् । यथा शयनासनादि । सत्त्वरजस्तमांसि च
चित्तलक्षणपरिणामभाञ्जि संहत्यकारीणि चआतः परार्थानि । यः
परः स पुरुषः ।
ननु यादृशेन शयनासनादीनां परेण शरीरवता
पारार्थ्यमुपलब्धं तद्दृष्टान्तबलेन तादृश एव परः सिध्यति ।
यादृशश्च भवतां परोऽसंहतरूपोऽभिप्रेतस्तद्विपरीतस्य
सिद्धेरयमिष्टविघातकृद्धेतुः ।
उच्यते —यद्यपि सामान्येन परार्थमात्रे व्याप्तिर्गृहीता
तथाऽपि सत्त्वादिविलक्षणधर्मिपर्यालोचनया तद्विलक्षण
एव भोक्ता परः सिध्यति । यथा चन्दनावृते शिखरिणि
विलक्षणाद्धूमाद्वह्निरनुमीयमान इतरवह्निविलक्षणश्चन्दनप्रभव
एव प्रतीयते । एवमिहापि विलक्षणस्य सत्त्वाख्यस्य भोग्यस्य
परार्थत्वेऽनुमीयमाने तथाविध एव भोक्ताऽधिष्ठाता
परश्चिन्मात्ररूपोऽसंहतः सिध्यति ।
यदि च तस्य परत्वं सर्वोत्कृष्टत्वमेवं प्रतीयते
तथापि तामसेभ्यो विषयेभ्यः प्रकृष्यते शरीरं
प्रकाशरूपेन्द्रियाश्रयत्वात् । तस्मादपि प्रकृष्यन्ते इन्द्रियाणि ।
ततोऽपि प्रकृष्टं सत्त्वं प्रकाशरूपम् । तस्यापि यः प्रकाशकः
प्रकाश्यविलक्षणः स चिद्रूप एव [पा० इव ]भवतीति
कुतस्तस्य संहतत्वम् ॥२३॥

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *