व्या॰ भा॰ १.१०

॥१.१०॥ सा च संप्रबोधे प्रत्यवमर्शात्प्रत्ययविशेषः । कथं, सुखमहमस्वाप्सम् । प्रसन्नं मे मनः प्रज्ञां मे विशारदी करोति । दुःखमहमस्वाप्सं स्त्यानं मे मनो भ्रमत्यनवस्थितम् । गाढं मूढोऽहमस्वाप्सम् । गुरूणि मे गात्राणि । क्लान्तं मे चित्तम् । अलसं मुषितमिव तिष्ठतीति । स खल्वयं प्रबुध्दस्य प्रत्यवमर्शो न स्यादसति प्रत्ययानुभवे तदाश्रिताः स्मृतयश्च तद्विषया न स्युः । तस्मात्प्रत्ययविशेषो निद्रा । सा च समाधावितरप्रत्ययवन्निरोध्दव्येति ।

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *