व्या॰ भा॰ १.२०

॥१.२०॥ उपायप्रत्ययो योगिनां भवति । श्रध्दा चेतसः संप्रसादः । सा हि जननीव कल्याणी योगिनं पाति । तस्य हि श्रद्दधानस्य विवेकार्थिनो वीर्यमुपजायते । समुपजातवीर्यस्य स्मृतिरुपतिष्ठते । स्मृत्युपस्थाने च चित्तमनाकुलं समाधीयते । समाहितचित्तस्य प्रज्ञाविवेक उपावर्तते । येन यथार्थं वस्तु जानाति । तदभ्यासत्तद्विषयाच्च वैराग्यादसंप्रज्ञातः समाधिर्भवति । ते खलु नव योगिनो मृदुमध्याधिमात्रोपाया भवन्ति । तद्यथामृदूपायो मध्योपायोऽधिमात्रोपाय इति । तत्र मृदूपायस्त्रिविधिःमृदुसंवेगो मध्यसंवेगस्तीव्रसंवेग इति । तथा मध्योपायस्तथाऽधिमात्रोपाय इति । तत्राऽधिमात्रोपायानां –

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *