व्या॰ भा॰ १.३१

॥१.३१॥ दुःखमाध्यात्मिकमाधिभौतिकमाधिदैविकं च । येनाभिहताः प्राणिनस्तदुपघाताय प्रयतन्ते तद्दुःखम् । दौर्मनस्यमिच्छाविघाताच्चेतसः क्षोभः । यदङ्गान्येजयति कम्पयति तदङ्गमेजयत्वम् । प्राणो यद्बाह्यं वायुमाचामति स श्वासः । यत्कौष्ठयं वायु निःसारयति स प्रश्वासः । ते विक्षेपसहभुवो विक्षिप्तचित्तस्यैते भवन्ति । समाहितचित्तस्यैते न भवन्ति । अथैते विक्षेपाः समाधिप्रतिपक्षास्ताभ्यामेवाभ्यासवैराग्याभ्यां निरोध्दव्याः । तत्राभ्यासस्य विषयमुपसंहरन्निदमाह –

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *