व्या॰ भा॰ १.३३

यस्य चित्तस्य अवस्थितस्य इदं शास्त्रेण परिकर्म निर्दिश्यते तद्–कथम्–

॥ मैत्री–करुणाम् उदित–उपेक्षाणां सुख–दुःख–पुण्य–अपुण्य–विषयाणां भावनातः चित्त–प्रसादनम्

तत्र सर्व–प्राणिषु सुख–संभोग–अपन्नेषु मैत्रीं भावयेत्। दुःखितेषु करुणाम्। पुण्य–आत्मकेषु मुदिताम्। अपुण्य–शीलेषु उपेक्षाम्। एवम् अस्य भावयतः शुक्लः धर्मः उपजायते। ततः च चित्तं प्रसीदति। प्रसन्नम् एकाग्रं स्थिति–पदं लभते॥

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *