व्या॰ भा॰ १.४०

॥१.४०॥ सूक्ष्मे निविशमानस्य परमाण्वन्तं स्थितिपदं लभत इति । स्थूले निविशमानस्य परममहत्त्वान्तं स्थितिपदं चित्तस्य । वं तामुभयीं कोटिमनुधावतो योऽस्याप्रतीघातः स परो वशीकारः । तद्वशीकारात्परिपूर्णं योगिनश्चित्तं न पुनरभ्यासकृतं परिकमापेक्षत इति । अथ लब्धस्थितिकस्य चेतसः किंस्वरूपा किंविषया वा समापत्तिरिति, तदुच्यते –

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *