व्या॰ भा॰ १.४२

॥१.४२॥ तद्यथा गौरितिशब्दो गौरित्यर्थो गौरिति ज्ञानमित्यविभागेन विभक्तानामपि ग्रहणं दृष्टम् । विभज्यमानाश्चान्ये शब्दधर्मा अन्येऽर्थधर्मा अन्ये ज्ञानधर्मा इत्येतेषां विभक्तः पन्थाः । तत्र समापन्नस्य योगिनो यो गवाद्यर्थ समाधिप्रज्ञायां समारूढः स चेच्छब्दार्थज्ञानविकल्पानुविध्द उपावर्तते सा संकीर्णा समापत्तिः सवितर्केत्युच्यते । यदा पुनः शब्दसंकेतस्मृतिपरिशुध्दौ श्रुतानुमानज्ञान विकल्पशून्यायां समाधिप्रज्ञायां स्वरूपमात्रेणावस्थितोऽर्थस्तत्स्वरूपाकारमात्रतयैवावच्छिद्यते । सा च निर्वितर्का समापत्ति । तत्परं प्रत्यक्षम् । तच्च श्रुतानुमानयोर्बीजम् । ततः श्रुतानुमाने प्रभवतः । न च श्रुतानुमानज्ञानसहभूतं तद्दर्शनम् । तस्मादसंकीर्णं प्रमाणान्तरेण योगिनो निर्वितर्कसमाधिजं दर्शनमिति । निर्वितर्कायाः समापत्तेरस्याः सूत्रेण लक्षणं द्योत्यते –

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *