व्या॰ भा॰ १.४३

॥१.४३॥ या शब्दसंकेतश्रुतानुमानज्ञानविकल्पस्मृतिपरिशुध्दौ ग्राह्यस्वरूपोपरक्ता प्रज्ञा स्वमिव प्रज्ञास्वरूपं ग्रहणात्मकं त्यक्त्वा पदार्थमात्रस्वरूपा ग्राह्यस्वरूपापन्नेव भवति सा निर्वितर्का समापत्तिः । तथा च व्याख्यातम् ॥ तस्या कबुद्ध्युपक्रमो ह्यर्थात्माऽणुप्रचयविशेषात्मा गवादिर्घटादिर्वा लोकः । स च संस्थानविशेषो भूतसूक्ष्माणां साधारणो धर्म आत्मभूतः फलेन व्यक्तेनानुमितः स्वव्यञ्जकाञ्जनः प्रादुर्भवति । धर्मान्तरस्य कपालादेरुदये च तिरो भवति । स ष धर्मोऽवयवीत्युच्यते । योऽसावेकश्च महांश्चारणीयांश्च स्पर्शवांश्च क्रियाधर्मकश्चानित्यश्च तेनावयविना व्यवहाराः क्रियन्ते । यस्य पुनरवस्तुकः स प्रचयविशेषः सूक्ष्मं च कारणमनुपलभ्यमविकल्पस्य तस्यावयव्यभावादतद्रूपप्रतिष्ठं मिथ्याज्ञानमिति प्रायेण सर्वमेव प्राप्तं मिथ्याज्ञानमिति । तदा च सम्यग्ज्ञानमपि किं स्याद्विषयाभावात् । यद्यदुपलभ्यते तत्तदवयवित्वेनाऽऽम्नातम् । तस्मादस्त्यवयवी यो महत्त्वादिव्यवहारापन्नः समापतेर्निर्वितर्काया विषयी भवति ।

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *