व्या॰ भा॰ १.४५

॥१.४५॥ पार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्मो विषयः । आप्यस्य रसतन्मात्रम् । तैजसस्य रूपतन्मात्रम् । वायवीयस्य स्पर्शतन्मात्रम् । आकाशस्य शब्दतन्मात्रमिति । तेषामहंकारः । अस्यापि लिङ्गमात्रं सूक्ष्मो विषयः । लिङ्गमात्रस्याप्यलिङ्गं सूक्ष्मो विषयः । न चालिङ्गात्परं सूक्ष्ममस्ति? । नन्वस्ति पुरुषः सूक्ष्म इति । सत्यम् । यथा लिङ्गात्परमलिङ्गस्य सौक्ष्म्यं न चैवं पुरुषस्य । किन्तु, लिङ्गस्यान्वयिकारणं पुरुषो न भवति । हेतुस्तु भवतीति । अतः प्रधाने सौक्ष्म्यं निरतिशयं व्याख्यातम् ।

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *