व्या॰ भा॰ २.२०

॥२.२०॥ दृशिमात्र इति दृक्शक्तिरेव विशेषणापरामृष्टेत्यर्थः । स पुरुषो बुध्देः प्रतिसंवेदी । स बुध्देर्न सरूपो नात्यन्तं विरूप इति । न तावत्सरूपः । कस्मात् । ज्ञाताज्ञातविषयत्वात्परिणामिनि हि बुध्दिः । तस्याश्च विषयो गवादिर्घटादिर्वा ज्ञातश्चाज्ञातश्चेति परिणमित्वं दर्शयति । सदाज्ञातविषयत्वं तु पुरुषस्यापरिणामित्वं परिदीपयति । कस्मात् । नहि बुध्दिश्च नाम पुरुषविषयश्च स्यादगृहीता चेति सिध्दं पुरुषस्य सदाज्ञातविषयत्वं ततश्चापरिणामित्वमिति । किं च परार्था बुध्दिः संहत्यकारित्वात्, स्वार्थः पुरुष इति । तथा सर्वार्थाध्यवसायकत्वात्त्रिगुणा बुध्दिस्त्रिगुणत्वादचेतनेति । गुणानां तूपद्रष्टा पुरुष इत्यतो न सरूपः । अस्तु तर्हि विरूप इति । नात्यन्तं विरूपः । कस्मात्, शुध्दोऽप्यसौ प्रत्ययानुपश्यो यतः । प्रत्ययं बौध्दमनुपश्यति, तमनुपश्यन्नतदात्माऽपि तदात्मक इव प्रत्यवभासते । तथा चोक्तम् ॥ अपरिणामिनीहि भोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्रान्तेव तद्वृत्तिमनु पतति, तस्याश्च प्राप्तचैतन्योपग्रहरूपाया बुध्दिवृत्तेरनुकारमात्रतया बुध्दिवृत्त्यविशिष्टा हि ज्ञानवृत्तिरित्याख्यायते ।

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *