व्या॰ भा॰ २.२२

॥२.२२॥ कृतार्थमेकं पुरुषं प्रति दृश्यं नष्टमपि नाशं प्राप्तमप्यनष्टं तदन्यपुरुषसाधारणत्वात् । कुशलं पुरुषं प्रति नाशं प्राप्तमप्यकुशलान्पुरुषान्प्रति न कृतार्थमिति तेषां दृशेः कर्मविषयतामापन्नं लभत व पुरुषेणाऽऽत्मरूपमिति । अतश्च दृग्दर्शनशक्त्योर्नित्यत्वादनादिः संयोगो व्याख्यात इति । तथा चोक्तम् ॥ धर्मिणामनादिसंयोगाध्दर्ममात्रणामप्यनादिः संयोग इति । संयोगस्वरूपाभिधित्सयेदं सूत्रं प्रवर्तते –

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *